04.052
वैशम्पायन उवाच॥
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः। आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः ॥ अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः ॥०४-५२-१॥
तौ रथौ सूर्यसङ्काशौ योत्स्यमानौ महाबलौ। शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥०४-५२-२॥
पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम्। विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः ॥०४-५२-३॥
तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान्। कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः ॥०४-५२-४॥
ततः पार्थश्च सङ्क्रुद्धश्चित्रान्मार्गान्प्रदर्शयन्। दिशः सञ्छादयन्बाणैः प्रदिशश्च महारथः ॥०४-५२-५॥
एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः। प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ॥०४-५२-६॥
स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः। तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् ॥ अर्पयित्वा महात्मानं ननाद समरे कृपः ॥०४-५२-७॥
ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः। त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः ॥ चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः ॥०४-५२-८॥
ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः। उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् ॥०४-५२-९॥
च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः। नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् ॥०४-५२-१०॥
स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम्। विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः ॥०४-५२-११॥
ततः पार्थो धनुस्तस्य भल्लेन निशितेन च। चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत् ॥०४-५२-१२॥
अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः। व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् ॥०४-५२-१३॥
तस्य निर्मुच्यमानस्य कवचात्काय आबभौ। समये मुच्यमानस्य सर्पस्येव तनुर्यथा ॥०४-५२-१४॥
छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम्। चकार गौतमः सज्यं तदद्भुतमिवाभवत् ॥०४-५२-१५॥
स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा। एवमन्यानि चापानि बहूनि कृतहस्तवत् ॥ शारद्वतस्य चिच्छेद पाण्डवः परवीरहा ॥०४-५२-१६॥
स छिन्नधनुरादाय अथ शक्तिं प्रतापवान्। प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव ॥०४-५२-१७॥
तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम्। वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः ॥ सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता ॥०४-५२-१८॥
युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः। तमाशु निशितैः पार्थं बिभेद दशभिः शरैः ॥०४-५२-१९॥
ततः पार्थो महातेजा विशिखानग्नितेजसः। चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् ॥०४-५२-२०॥
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्। षष्ठेन च शिरः कायाच्छरेण रथसारथेः ॥०४-५२-२१॥
त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः। द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा ॥०४-५२-२२॥
ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव। त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् ॥०४-५२-२३॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः। गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् ॥०४-५२-२४॥
सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता। अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् ॥०४-५२-२५॥
ततो योधाः परीप्सन्तः शारद्वतममर्षणम्। सर्वतः समरे पार्थं शरवर्षैरवाकिरन् ॥०४-५२-२६॥
ततो विराटस्य सुतः सव्यमावृत्य वाजिनः। यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् ॥०४-५२-२७॥
ततः कृपमुपादाय विरथं ते नरर्षभाः। अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनञ्जयात् ॥०४-५२-२८॥