Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.053
अर्जुन उवाच॥
यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा। उच्छ्रिता काञ्चने दण्डे पताकाभिरलङ्कृता ॥ तत्र मां वह भद्रं ते द्रोणानीकाय मारिष ॥०४-५३-१॥
अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः। स्निग्धविद्रुमसङ्काशास्ताम्रास्याः प्रियदर्शनाः ॥ युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ॥०४-५३-२॥
दीर्घबाहुर्महातेजा बलरूपसमन्वितः। सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् ॥०४-५३-३॥
बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये। वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ॥०४-५३-४॥
ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष। धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ॥०४-५३-५॥
क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम्। एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे ॥०४-५३-६॥
तेनाहं योद्धुमिच्छामि महाभागेन संयुगे। तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ॥०४-५३-७॥
वैशम्पायन उवाच॥
अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान्। चोदयामास तानश्वान्भारद्वाजरथं प्रति ॥०४-५३-८॥
तमापतन्तं वेगेन पाण्डवं रथिनां वरम्। द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ॥०४-५३-९॥
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम्। प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ॥०४-५३-१०॥
अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः। मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः ॥०४-५३-११॥
तौ रथौ वीर्यसम्पन्नौ दृष्ट्वा सङ्ग्राममूर्धनि। आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ॥०४-५३-१२॥
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ। दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ॥०४-५३-१३॥
हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान्। रथं रथेन द्रोणस्य समासाद्य महारथः ॥०४-५३-१४॥
अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः। उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ॥०४-५३-१५॥
उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः। कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥०४-५३-१६॥
अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ। इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति ॥०४-५३-१७॥
ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम्। अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् ॥०४-५३-१८॥
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान्। अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ॥०४-५३-१९॥
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः। समं विमुञ्चतोः सङ्ख्ये विशिखान्दीप्ततेजसः ॥०४-५३-२०॥
तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे। उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ॥ क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ॥०४-५३-२१॥
व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः। शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् ॥०४-५३-२२॥
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात्। रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ॥ इत्यब्रुवञ्जनास्तत्र सङ्ग्रामशिरसि स्थिताः ॥०४-५३-२३॥
वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ। छादयेतां शरव्रातैरन्योन्यमपराजितौ ॥०४-५३-२४॥
विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम्। संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत ॥०४-५३-२५॥
स सायकमयैर्जालैरर्जुनस्य रथं प्रति। भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥०४-५३-२६॥
पार्थं च स महाबाहुर्महावेगैर्महारथः। विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् ॥०४-५३-२७॥
तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः। शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् ॥ विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् ॥०४-५३-२८॥
नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान्। तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् ॥०४-५३-२९॥
स रथेन चरन्पार्थः प्रेक्षणीयो धनञ्जयः। युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् ॥०४-५३-३०॥
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः। नादृश्यत तदा द्रोणो नीहारेणेव संवृतः ॥०४-५३-३१॥
तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः। जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः ॥०४-५३-३२॥
दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम्। स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् ॥०४-५३-३३॥
अग्निचक्रोपमं घोरं विकर्षन्परमायुधम्। व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ॥ महानभूत्ततः शब्दो वंशानामिव दह्यताम् ॥०४-५३-३४॥
जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः। प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥०४-५३-३५॥
ततः कनकपुङ्खानां शराणां नतपर्वणाम्। वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः ॥०४-५३-३६॥
द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात्। एको दीर्घ इवादृश्यदाकाशे संहतः शरः ॥०४-५३-३७॥
एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान्। आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥०४-५३-३८॥
शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः। पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ॥०४-५३-३९॥
युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः। द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ॥०४-५३-४०॥
तौ गजाविव चासाद्य विषाणाग्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥०४-५३-४१॥
तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ। उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ॥०४-५३-४२॥
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान्। न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ॥०४-५३-४३॥
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः। इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ॥०४-५३-४४॥
जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम्। आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः ॥ अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः ॥०४-५३-४५॥
दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे। अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् ॥०४-५३-४६॥
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः। अमर्षिणोस्तदान्योन्यं देवदानवयोरिव ॥०४-५३-४७॥
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः। द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः ॥०४-५३-४८॥
एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान्। एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः ॥०४-५३-४९॥
ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु। पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥०४-५३-५०॥
ततो नागा रथाश्चैव सादिनश्च विशां पते। शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः ॥०४-५३-५१॥
बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः। सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥०४-५३-५२॥
योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः। बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे ॥०४-५३-५३॥
विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने। आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः ॥०४-५३-५४॥
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम्। दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥०४-५३-५५॥
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्। जेतारं देवदैत्यानां सर्पाणां च महारथम् ॥०४-५३-५६॥
अविश्रमं च शिक्षां च लाघवं दूरपातिताम्। पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः ॥०४-५३-५७॥
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः। विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ ॥०४-५३-५८॥
तस्य बाणमयं वर्षं शलभानामिवायतम्। न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् ॥०४-५३-५९॥
अनिशं संदधानस्य शरानुत्सृजतस्तदा। ददृशे नान्तरं किञ्चित्पार्थस्याददतोऽपि च ॥०४-५३-६०॥
तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे। शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् ॥०४-५३-६१॥
ततः शतसहस्राणि शराणां नतपर्वणाम्। युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥०४-५३-६२॥
अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना। हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥०४-५३-६३॥
पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत्। गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥०४-५३-६४॥
ततो वृन्देन महता रथानां रथयूथपः। आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् ॥०४-५३-६५॥
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः। पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् ॥०४-५३-६६॥
स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे। किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥०४-५३-६७॥
आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान्। अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥०४-५३-६८॥
स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः। छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः ॥०४-५३-६९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.