04.054
वैशम्पायन उवाच॥
तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम्। शरजालेन महता वर्षमाणमिवाम्बुदम् ॥०४-५४-१॥
तयोर्देवासुरसमः संनिपातो महानभूत्। किरतोः शरजालानि वृत्रवासवयोरिव ॥०४-५४-२॥
न स्म सूर्यस्तदा भाति न च वाति समीरणः। शरगाढे कृते व्योम्नि छायाभूते समन्ततः ॥०४-५४-३॥
महांश्चटचटाशब्दो योधयोर्हन्यमानयोः। दह्यतामिव वेणूनामासीत्परपुरञ्जय ॥०४-५४-४॥
हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान्। स राजन्न प्रजानाति दिशं काञ्चन मोहितः ॥०४-५४-५॥
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः। विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह ॥ तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम् ॥०४-५४-६॥
ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम्। पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः ॥०४-५४-७॥
ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा। योजयामास नवया मौर्व्या गाण्डीवमोजसा ॥०४-५४-८॥
ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत्। वारणेनेव मत्तेन मत्तो वारणयूथपः ॥०४-५४-९॥
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः। रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम् ॥०४-५४-१०॥
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः। युध्यमानौ महात्मानौ यूथपाविव सङ्गतौ ॥०४-५४-११॥
तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ। शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः ॥०४-५४-१२॥
अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः। तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥०४-५४-१३॥
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे। जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ॥०४-५४-१४॥
ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा। अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत् ॥०४-५४-१५॥
तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः। ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत् ॥०४-५४-१६॥
स रोषवशमापन्नः कर्णमेव जिघांसया। अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुङ्गवः ॥०४-५४-१७॥
तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान्। त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः ॥०४-५४-१८॥
उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनञ्जयः। अभिदुद्राव सहसा कर्णमेव सपत्नजित् ॥०४-५४-१९॥
तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः। कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत् ॥०४-५४-२०॥