Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.055
अर्जुन उवाच॥
कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम्। न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥०४-५५-१॥
अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम्। इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् ॥०४-५५-२॥
यत्त्वया कथितं पूर्वं मामनासाद्य किञ्चन। तदद्य कुरु राधेय कुरुमध्ये मया सह ॥०४-५५-३॥
यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः। दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् ॥०४-५५-४॥
धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा। तस्य राधेय कोपस्य विजयं पश्य मे मृधे ॥०४-५५-५॥
एहि कर्ण मया सार्धं प्रतिपद्यस्व सङ्गरम्। प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः ॥०४-५५-६॥
कर्ण उवाच॥
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर। अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि ॥०४-५५-७॥
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम्। इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् ॥०४-५५-८॥
धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा। तथैव बद्धमात्मानमबद्धमिव मन्यसे ॥०४-५५-९॥
यदि तावद्वने वासो यथोक्तश्चरितस्त्वया। तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि ॥०४-५५-१०॥
यदि शक्रः स्वयं पार्थ युध्यते तव कारणात्। तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥०४-५५-११॥
अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः। योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् ॥०४-५५-१२॥
अर्जुन उवाच॥
इदानीमेव तावत्त्वमपयातो रणान्मम। तेन जीवसि राधेय निहतस्त्वनुजस्तव ॥०४-५५-१३॥
भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः। त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥०४-५५-१४॥
वैशम्पायन उवाच॥
इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः। अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥०४-५५-१५॥
प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान्। शरवर्षेण महता वर्षमाण इवाम्बुदः ॥०४-५५-१६॥
उत्पेतुः शरजालानि घोररूपाणि सर्वशः। अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् ॥०४-५५-१७॥
सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम्। चिच्छेद निशिताग्रेण शरेण नतपर्वणा ॥०४-५५-१८॥
उपासङ्गादुपादाय कर्णो बाणानथापरान्। विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत ॥०४-५५-१९॥
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्। स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः ॥०४-५५-२०॥
ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः। तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥०४-५५-२१॥
ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः। आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि ॥०४-५५-२२॥
अथापरेण बाणेन ज्वलितेन महाभुजः। विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् ॥०४-५५-२३॥
तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः। ततः स तमसाविष्टो न स्म किञ्चित्प्रजज्ञिवान् ॥०४-५५-२४॥
स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः। ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः ॥०४-५५-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.