04.056
वैशम्पायन उवाच॥
ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत्। एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः ॥०४-५६-१॥
अत्र शान्तनवो भीष्मो रथेऽस्माकं पितामहः। काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः ॥ आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे ॥०४-५६-२॥
अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय। शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे ॥०४-५६-३॥
सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम। दक्षिणेनाथ वामेन कतरेण स्विदस्यति ॥ इति मां सङ्गताः सर्वे तर्कयिष्यन्ति शत्रवः ॥०४-५६-४॥
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम्। नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् ॥०४-५६-५॥
पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम्। वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः ॥०४-५६-६॥
जयतः कौरवीं सेनामेकस्य मम धन्विनः। शतं मार्गा भविष्यन्ति पावकस्येव कानने ॥ मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ॥०४-५६-७॥
असम्भ्रान्तो रथे तिष्ठ समेषु विषमेषु च। दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः ॥०४-५६-८॥
अहमिन्द्रस्य वचनात्सङ्ग्रामेऽभ्यहनं पुरा। पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥०४-५६-९॥
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम्। प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः ॥०४-५६-१०॥
अहं पारे समुद्रस्य हिरण्यपुरमारुजम्। जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् ॥०४-५६-११॥
ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम्। वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥०४-५६-१२॥
तानहं रथनीडेभ्यः शरैः संनतपर्वभिः। एकः सङ्कालयिष्यामि वज्रपाणिरिवासुरान् ॥०४-५६-१३॥
रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि। अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ॥ वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् ॥०४-५६-१४॥
धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम्। अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् ॥०४-५६-१५॥
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना। व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः ॥०४-५६-१६॥
तमायान्तं महाबाहुं जिगीषन्तं रणे परान्। अभ्यवारयदव्यग्रः क्रूरकर्मा धनञ्जयम् ॥०४-५६-१७॥
तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः। आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः ॥०४-५६-१८॥
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः। आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् ॥०४-५६-१९॥
दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम्। द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे ॥०४-५६-२०॥
तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम्। चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् ॥०४-५६-२१॥
अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे। सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः ॥०४-५६-२२॥
तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः। विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः ॥०४-५६-२३॥
ततस्तमपि कौन्तेयः शरेणानतपर्वणा। ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् ॥०४-५६-२४॥
ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः। अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥०४-५६-२५॥
तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनञ्जयः। विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् ॥०४-५६-२६॥
तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ। अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥०४-५६-२७॥
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः। किरीटमाली कौन्तेयो लब्धलक्षो महाबलः ॥०४-५६-२८॥