Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.057
वैशम्पायन उवाच॥
अथ सङ्गम्य सर्वे तु कौरवाणां महारथाः। अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ॥०४-५७-१॥
स सायकमयैर्जालैः सर्वतस्तान्महारथान्। प्राच्छादयदमेयात्मा नीहार इव पर्वतान् ॥०४-५७-२॥
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः। भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥०४-५७-३॥
नराश्वकायान्निर्भिद्य लोहानि कवचानि च। पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ॥०४-५७-४॥
त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे। मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥०४-५७-५॥
उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा। सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥०४-५७-६॥
शरैः सन्ताड्यमानानां कवचानां महात्मनाम्। ताम्रराजतलोहानां प्रादुरासीन्महास्वनः ॥०४-५७-७॥
छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम्। गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः ॥०४-५७-८॥
रथोपस्थाभिपतितैरास्तृता मानवैर्मही। प्रनृत्यदिव सङ्ग्रामे चापहस्तो धनञ्जयः ॥०४-५७-९॥
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः। त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् ॥०४-५७-१०॥
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च। पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥०४-५७-११॥
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः। सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥०४-५७-१२॥
शिरसां पात्यमानानामन्तरा निशितैः शरैः। अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥०४-५७-१३॥
दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः। अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च ॥ क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः ॥०४-५७-१४॥
तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम्। सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः ॥०४-५७-१५॥
वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान्। अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत ॥०४-५७-१६॥
प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम्। अस्थिशैवलसम्बाधां युगान्ते कालनिर्मिताम् ॥०४-५७-१७॥
शरचापप्लवां घोरां मांसशोणितकर्दमाम्। महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् ॥ चकार महतीं पार्थो नदीमुत्तरशोणिताम् ॥०४-५७-१८॥
आददानस्य हि शरान्सन्धाय च विमुञ्चतः। विकर्षतश्च गाण्डीवं न किञ्चिद्दृश्यतेऽन्तरम् ॥०४-५७-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.