Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.058
वैशम्पायन उवाच॥
अथ दुर्योधनः कर्णो दुःशासनविविंशती। द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे ॥०४-५८-१॥
पुनरीयुः सुसंरब्धा धनञ्जयजिघांसया। विस्फारयन्तश्चापानि बलवन्ति दृढानि च ॥०४-५८-२॥
तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा। प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः ॥०४-५८-३॥
ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः। तं महास्त्रैर्महावीर्यं परिवार्य धनञ्जयम् ॥०४-५८-४॥
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः। ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् ॥०४-५८-५॥
इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः। अदूरात्पर्यवस्थाय पूरयामासुरादृताः ॥०४-५८-६॥
तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः। न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत ॥०४-५८-७॥
ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः। अस्त्रमादित्यसङ्काशं गाण्डीवे समयोजयत् ॥०४-५८-८॥
स रश्मिभिरिवादित्यः प्रतपन्समरे बली। किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून् ॥०४-५८-९॥
यथा बलाहके विद्युत्पावको वा शिलोच्चये। तथा गाण्डीवमभवदिन्द्रायुधमिवाततम् ॥०४-५८-१०॥
यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि। तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत् ॥०४-५८-११॥
त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः। सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे ॥ सङ्ग्रामविमुखाः सर्वे योधास्ते हतचेतसः ॥०४-५८-१२॥
एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ। प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते ॥०४-५८-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.