04.059
वैशम्पायन उवाच॥
ततः शान्तनवो भीष्मो दुराधर्षः प्रतापवान्। वध्यमानेषु योधेषु धनञ्जयमुपाद्रवत् ॥०४-५९-१॥
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम्। शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः ॥०४-५९-२॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा ॥०४-५९-३॥
प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन्। प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् ॥०४-५९-४॥
तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा। प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः ॥०४-५९-५॥
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्। समपर्यन्महावेगाञ्श्वसमानानिवोरगान् ॥०४-५९-६॥
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः। ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् ॥०४-५९-७॥
ततो भल्लेन महता पृथुधारेण पाण्डवः। छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि ॥०४-५९-८॥
ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम्। शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी ॥०४-५९-९॥
तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम्। भीष्मस्य सह पार्थेन बलिवासवयोरिव ॥०४-५९-१०॥
भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि। अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥०४-५९-११॥
अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः। गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् ॥०४-५९-१२॥
स तैः सञ्छादयामास भीष्मं शरशतैः शितैः। पर्वतं वारिधाराभिश्छादयन्निव तोयदः ॥०४-५९-१३॥
तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम्। व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत् ॥०४-५९-१४॥
ततस्तानि निकृत्तानि शरजालानि भागशः। समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति ॥०४-५९-१५॥
ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम्। पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् ॥ व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः ॥०४-५९-१६॥
ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन्। दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् ॥०४-५९-१७॥
बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः। कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥०४-५९-१८॥
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात्। आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् ॥०४-५९-१९॥
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ। चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ ॥०४-५९-२०॥
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम्। कौबेरं वारुणं चैव याम्यं वायव्यमेव च ॥ प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः ॥०४-५९-२१॥
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा। साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥०४-५९-२२॥
नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान्। महास्त्राणां सम्प्रयोगः समरे भीष्मपार्थयोः ॥०४-५९-२३॥
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत। अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ॥ चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् ॥०४-५९-२४॥
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे। समादाय महाबाहुः सज्यं चक्रे महाबलः ॥ शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनञ्जये ॥०४-५९-२५॥
अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून्। चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे ॥०४-५९-२६॥
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान्। न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः ॥०४-५९-२७॥
अथावृणोद्दश दिशः शरैरतिरथस्तदा। किरीटमाली कौन्तेयः शूरः शान्तनवस्तथा ॥०४-५९-२८॥
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम्। बभूव तस्मिन्सङ्ग्रामे राजँल्लोके तदद्भुतम् ॥०४-५९-२९॥
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः। शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम् ॥०४-५९-३०॥
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः। आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः ॥०४-५९-३१॥
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः। आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥०४-५९-३२॥
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः। प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ॥०४-५९-३३॥
तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम्। शशंस देवराजाय चित्रसेनः प्रतापवान् ॥०४-५९-३४॥
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः। चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ॥०४-५९-३५॥
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते। पौराणानां महास्त्राणां विचित्रोऽयं समागमः ॥०४-५९-३६॥
मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे। न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् ॥०४-५९-३७॥
उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ। उभौ सदृशकर्माणावुभौ युधि दुरासदौ ॥०४-५९-३८॥
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्। पूजयामास दिव्येन पुष्पवर्षेण भारत ॥०४-५९-३९॥
ततो भीष्मः शान्तनवो वामे पार्श्वे समर्पयत्। अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः ॥०४-५९-४०॥
ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम्। न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः ॥०४-५९-४१॥
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे। यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ॥०४-५९-४२॥
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम्। गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः ॥०४-५९-४३॥
तं विसञ्ज्ञमपोवाह संयन्ता रथवाजिनाम्। उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥०४-५९-४४॥