Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.060
वैशम्पायन उवाच॥
भीष्मे तु सङ्ग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः। उच्छ्रित्य केतुं विनदन्महात्मा; स्वयं विगृह्यार्जुनमाससाद ॥०४-६०-१॥
स भीमधन्वानमुदग्रवीर्यं; धनञ्जयं शत्रुगणे चरन्तम्। आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये ॥०४-६०-२॥
स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन। रराज राजन्महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः ॥०४-६०-३॥
अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृगजस्रमुष्णम्। सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म ॥०४-६०-४॥
स तेन बाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः। शरानुपादाय विषाग्निकल्पा; न्विव्याध राजानमदीनसत्त्वः ॥०४-६०-५॥
दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः। अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ ॥०४-६०-६॥
ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः। रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत् ॥०४-६०-७॥
तमापतन्तं त्वरितं गजेन्द्रं; धनञ्जयः कुम्भविभागमध्ये। आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन ॥०४-६०-८॥
पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम्। विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः ॥०४-६०-९॥
शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा। संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य ॥०४-६०-१०॥
निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य। तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह ॥०४-६०-११॥
निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम्। तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद ॥०४-६०-१२॥
ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे। गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना; स्ते योधमुख्याः सहसापजग्मुः ॥०४-६०-१३॥
दृष्ट्वैव बाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य। रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः ॥०४-६०-१४॥
तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी। प्राक्ष्वेडयद्योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम् ॥०४-६०-१५॥
अर्जुन उवाच॥
विहाय कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलायसे किम्। न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे ॥०४-६०-१६॥
युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीयो युधि च स्थिरोऽस्मि। तदर्थमावृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ॥०४-६०-१७॥
मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात्। न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय ॥०४-६०-१८॥
न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम्। परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष ॥०४-६०-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.