04.061
वैशम्पायन उवाच॥
आहूयमानस्तु स तेन सङ्ख्ये; महामना धृतराष्ट्रस्य पुत्रः। निवर्तितस्तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन ॥०४-६१-१॥
सोऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस्तरस्वी। पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः ॥०४-६१-२॥
तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः। दुर्योधनं दक्षिणतोऽभ्यगच्छ; त्पार्थं नृवीरो युधि हेममाली ॥०४-६१-३॥
भीष्मस्ततः शान्तनवो निवृत्य; हिरण्यकक्ष्यांस्त्वरयंस्तुरङ्गान्। दुर्योधनं पश्चिमतोऽभ्यरक्ष; त्पार्थान्महाबाहुरधिज्यधन्वा ॥०४-६१-४॥
द्रोणः कृपश्चैव विविंशतिश्च; दुःशासनश्चैव निवृत्य शीघ्रम्। सर्वे पुरस्ताद्विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः ॥०४-६१-५॥
स तान्यनीकानि निवर्तमाना; न्यालोक्य पूर्णौघनिभानि पार्थः। हंसो यथा मेघमिवापतन्तं; धनञ्जयः प्रत्यपतत्तरस्वी ॥०४-६१-६॥
ते सर्वतः सम्परिवार्य पार्थ; मस्त्राणि दिव्यानि समाददानाः। ववर्षुरभ्येत्य शरैः समन्ता; न्मेघा यथा भूधरमम्बुवेगैः ॥०४-६१-७॥
ततोऽस्त्रमस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुङ्गवानाम्। संमोहनं शत्रुसहोऽन्यदस्त्रं; प्रादुश्चकारैन्द्रिरपारणीयम् ॥०४-६१-८॥
ततो दिशश्चानुदिशो विवृत्य; शरैः सुधारैर्निशितैः सुपुङ्खैः। गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार ॥०४-६१-९॥
ततः पुनर्भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खमुदारघोषम्। व्यनादयत्स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता ॥०४-६१-१०॥
ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन। उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः ॥०४-६१-११॥
तथा विसञ्ज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः। निर्याहि मध्यादिति मत्स्यपुत्र; मुवाच यावत्कुरवो विसञ्ज्ञाः ॥०४-६१-१२॥
आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम्। द्रौणेश्च राज्ञश्च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर ॥०४-६१-१३॥
भीष्मस्य सञ्ज्ञां तु तथैव मन्ये; जानाति मेऽस्त्रप्रतिघातमेषः। एतस्य वाहान्कुरु सव्यतस्त्व; मेवं हि यातव्यममूढसञ्ज्ञैः ॥०४-६१-१४॥
रश्मीन्समुत्सृज्य ततो महात्मा; रथादवप्लुत्य विराटपुत्रः। वस्त्राण्युपादाय महारथानां; तूर्णं पुनः स्वं रथमारुरोह ॥०४-६१-१५॥
ततोऽन्वशासच्चतुरः सदश्वा; न्पुत्रो विराटस्य हिरण्यकक्ष्यान्। ते तद्व्यतीयुर्ध्वजिनामनीकं; श्वेता वहन्तोऽर्जुनमाजिमध्यात् ॥०४-६१-१६॥
तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैरभ्यहनत्तरस्वी। स चापि भीष्मस्य हयान्निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः ॥०४-६१-१७॥
ततोऽर्जुनो भीष्ममपास्य युद्धे; विद्ध्वास्य यन्तारमरिष्टधन्वा। तस्थौ विमुक्तो रथवृन्दमध्या; द्राहुं विदार्येव सहस्ररश्मिः ॥०४-६१-१८॥
लब्ध्वा तु सञ्ज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम्। रणाद्विमुक्तं स्थितमेकमाजौ; स धार्तराष्ट्रस्त्वरितो बभाषे ॥०४-६१-१९॥
अयं कथं स्विद्भवतां विमुक्त; स्तं वै प्रबध्नीत यथा न मुच्येत्। तमब्रवीच्छान्तनवः प्रहस्य; क्व ते गता बुद्धिरभूत्क्व वीर्यम् ॥०४-६१-२०॥
शान्तिं पराश्वस्य यथा स्थितोऽभू; रुत्सृज्य बाणांश्च धनुश्च चित्रम्। न त्वेव बीभत्सुरलं नृशंसं; कर्तुं न पापेऽस्य मनो निविष्टम् ॥०४-६१-२१॥
त्रैलोक्यहेतोर्न जहेत्स्वधर्मं; तस्मान्न सर्वे निहता रणेऽस्मिन्। क्षिप्रं कुरून्याहि कुरुप्रवीर; विजित्य गाश्च प्रतियातु पार्थः ॥०४-६१-२२॥
दुर्योधनस्तस्य तु तन्निशम्य; पितामहस्यात्महितं वचोऽथ। अतीतकामो युधि सोऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम् ॥०४-६१-२३॥
तद्भीष्मवाक्यं हितमीक्ष्य सर्वे; धनञ्जयाग्निं च विवर्धमानम्। निवर्तनायैव मनो निदध्यु; र्दुर्योधनं ते परिरक्षमाणाः ॥०४-६१-२४॥
तान्प्रस्थितान्प्रीतमनाः स पार्थो; धनञ्जयः प्रेक्ष्य कुरुप्रवीरान्। आभाषमाणोऽनुययौ मुहूर्तं; सम्पूजयंस्तत्र गुरून्महात्मा ॥०४-६१-२५॥
पितामहं शान्तनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना। द्रौणिं कृपं चैव गुरूंश्च सर्वा; ञ्शरैर्विचित्रैरभिवाद्य चैव ॥०४-६१-२६॥
दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण। आमन्त्र्य वीरांश्च तथैव मान्या; न्गाण्डीवघोषेण विनाद्य लोकान् ॥०४-६१-२७॥
स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि। ध्वजेन सर्वानभिभूय शत्रू; न्स हेमजालेन विराजमानः ॥०४-६१-२८॥
दृष्ट्वा प्रयातांस्तु कुरून्किरीटी; हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम्। आवर्तयाश्वान्पशवो जितास्ते; याताः परे याहि पुरं प्रहृष्टः ॥०४-६१-२९॥