Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.062
वैशम्पायन उवाच॥
ततो विजित्य सङ्ग्रामे कुरून्गोवृषभेक्षणः। समानयामास तदा विराटस्य धनं महत् ॥०४-६२-१॥
गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः। वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ॥०४-६२-२॥
भयात्सन्त्रस्तमनसः समाजग्मुस्ततस्ततः। मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा ॥०४-६२-३॥
क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः। ऊचुः प्रणम्य सम्भ्रान्ताः पार्थ किं करवाम ते ॥०४-६२-४॥
अर्जुन उवाच॥
स्वस्ति व्रजत भद्रं वो न भेतव्यं कथञ्चन। नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः ॥०४-६२-५॥
वैशम्पायन उवाच॥
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः। आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन् ॥०४-६२-६॥
ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः। पन्थानमुपसङ्गम्य फल्गुनो वाक्यमब्रवीत् ॥०४-६२-७॥
राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः। गोकुलानि महाबाहो वीर गोपालकैः सह ॥०४-६२-८॥
ततोऽपराह्णे यास्यामो विराटनगरं प्रति। आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः ॥०४-६२-९॥
गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया। नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥०४-६२-१०॥
वैशम्पायन उवाच॥
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः। वचनादर्जुनस्यैव आचक्षध्वं जयं मम ॥०४-६२-११॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.