04.063
वैवाहिकपर्व
वैशम्पायन उवाच॥
अवजित्य धनं चापि विराटो वाहिनीपतिः। प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥०४-६३-१॥
जित्वा त्रिगर्तान्सङ्ग्रामे गाश्चैवादाय केवलाः। अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥०४-६३-२॥
तमासनगतं वीरं सुहृदां प्रीतिवर्धनम्। उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह ॥०४-६३-३॥
सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट्। विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥०४-६३-४॥
ततः स राजा मत्स्यानां विराटो वाहिनीपतिः। उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् ॥०४-६३-५॥
आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि। अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥०४-६३-६॥
विजेतुमभिसंरब्ध एक एवातिसाहसात्। बृहन्नडासहायश्च निर्यातः पृथिवीञ्जयः ॥०४-६३-७॥
उपयातानतिरथान्द्रोणं शान्तनवं कृपम्। कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥०४-६३-८॥
राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम्। बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥०४-६३-९॥
सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः। त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन ॥०४-६३-१०॥
तस्माद्गच्छन्तु मे योधा बलेन महता वृताः। उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥०४-६३-११॥
हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसङ्घांश्च ततः प्रवीरान्। प्रस्थापयामास सुतस्य हेतो; र्विचित्रशस्त्राभरणोपपन्नान् ॥०४-६३-१२॥
एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः। व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥०४-६३-१३॥
कुमारमाशु जानीत यदि जीवति वा न वा। यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति ॥०४-६३-१४॥
तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम्। बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः ॥०४-६३-१५॥
सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान्। अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन ॥०४-६३-१६॥
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः। विराटनगरं प्राप्य जयमावेदयंस्तदा ॥०४-६३-१७॥
राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम्। पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् ॥०४-६३-१८॥
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः। उत्तरः सह सूतेन कुशली च परन्तप ॥०४-६३-१९॥
कङ्क उवाच॥
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः। दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ ॥०४-६३-२०॥
नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून्। ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा ॥०४-६३-२१॥
वैशम्पायन उवाच॥
ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः। श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः ॥ आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् ॥०४-६३-२२॥
राजमार्गाः क्रियन्तां मे पताकाभिरलङ्कृताः। पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ॥०४-६३-२३॥
कुमारा योधमुख्याश्च गणिकाश्च स्वलङ्कृताः। वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥०४-६३-२४॥
घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम्। शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम ॥०४-६३-२५॥
उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता। शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् ॥०४-६३-२६॥
श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्च। भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च ॥०४-६३-२७॥
तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः। पुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ॥०४-६३-२८॥
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः। मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् ॥ अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ॥०४-६३-२९॥
तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत। न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥०४-६३-३०॥
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे। प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ॥०४-६३-३१॥
विराट उवाच॥
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन। न मे किञ्चित्त्वया रक्ष्यमन्तरेणापि देवितुम् ॥०४-६३-३२॥
कङ्क उवाच॥
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद। देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥०४-६३-३३॥
श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः। स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् ॥०४-६३-३४॥
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये। अथ वा मन्यसे राजन्दीव्याव यदि रोचते ॥०४-६३-३५॥
वैशम्पायन उवाच॥
प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत्। पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ॥०४-६३-३६॥
ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः। बृहन्नडा यस्य यन्ता कथं स न विजेष्यति ॥०४-६३-३७॥
इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत्। समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि ॥०४-६३-३८॥
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे। भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति ॥०४-६३-३९॥
वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे। नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि ॥०४-६३-४०॥
युधिष्ठिर उवाच॥
यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः। दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः ॥०४-६३-४१॥
मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः। कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत सङ्गतान् ॥०४-६३-४२॥
विराट उवाच॥
बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि। नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ॥०४-६३-४३॥
वैशम्पायन उवाच॥
ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम्। मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् ॥०४-६३-४४॥
बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत्। तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ॥०४-६३-४५॥
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम्। सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा ॥०४-६३-४६॥
पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता। तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् ॥०४-६३-४७॥
अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा। अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् ॥०४-६३-४८॥
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा। आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् ॥०४-६३-४९॥
ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत्। बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः ॥०४-६३-५०॥
ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत्। प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः ॥०४-६३-५१॥
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्। उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा ॥०४-६३-५२॥
एतस्य हि महाबाहो व्रतमेतत्समाहितम्। यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् ॥ अन्यत्र सङ्ग्रामगतान्न स जीवेदसंशयम् ॥०४-६३-५३॥
न मृष्याद्भृशसङ्क्रुद्धो मां दृष्ट्वैव सशोणितम्। विराटमिह सामात्यं हन्यात्सबलवाहनम् ॥०४-६३-५४॥