Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.064
वैशम्पायन उवाच॥
ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवीञ्जयः। सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत ॥०४-६४-१॥
स तं रुधिरसंसिक्तमनेकाग्रमनागसम्। भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् ॥०४-६४-२॥
ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः। केनायं ताडितो राजन्केन पापमिदं कृतम् ॥०४-६४-३॥
विराट उवाच॥
मयायं ताडितो जिह्मो न चाप्येतावदर्हति। प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति ॥०४-६४-४॥
उत्तर उवाच॥
अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम्। मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् ॥०४-६४-५॥
वैशम्पायन उवाच॥
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः। क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् ॥०४-६४-६॥
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत। चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ॥०४-६४-७॥
यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः। सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः ॥०४-६४-८॥
न दूषयामि ते राजन्यच्च हन्याददूषकम्। बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् ॥०४-६४-९॥
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा। अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत ॥०४-६४-१०॥
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम्। प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ॥०४-६४-११॥
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन। त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥०४-६४-१२॥
पदं पदसहस्रेण यश्चरन्नापराध्नुयात्। तेन कर्णेन ते तात कथमासीत्समागमः ॥०४-६४-१३॥
मनुष्यलोके सकले यस्य तुल्यो न विद्यते। यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः ॥ तेन भीष्मेण ते तात कथमासीत्समागमः ॥०४-६४-१४॥
आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः। सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः ॥ तेन द्रोणेन ते तात कथमासीत्समागमः ॥०४-६४-१५॥
आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि। अश्वत्थामेति विख्यातः कथं तेन समागमः ॥०४-६४-१६॥
रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा। कृपेण तेन ते तात कथमासीत्समागमः ॥०४-६४-१७॥
पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः। दुर्योधनेन ते तात कथमासीत्समागमः ॥०४-६४-१८॥
उत्तर उवाच॥
न मया निर्जिता गावो न मया निर्जिताः परे। कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् ॥०४-६४-१९॥
स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत्। स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा ॥०४-६४-२०॥
तेन ता निर्जिता गावस्तेन ते कुरवो जिताः। तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ॥०४-६४-२१॥
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान्। सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥०४-६४-२२॥
दुर्योधनं च समरे सनागमिव यूथपम्। प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥०४-६४-२३॥
न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन। व्यायामेन परीप्सस्व जीवितं कौरवात्मज ॥०४-६४-२४॥
न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु। पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥०४-६४-२५॥
स निवृत्तो नरव्याघ्रो मुञ्चन् वज्रनिभान् शरान्। सचिवैः संवृतः राजा रथे नाग इव श्वसन् ॥०४-६४-२६॥
तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष। यदभ्रघनसङ्काशमनीकं व्यधमच्छरैः ॥०४-६४-२७॥
तत्प्रणुद्य रथानीकं सिंहसंहननो युवा। कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली ॥०४-६४-२८॥
एकेन तेन वीरेण षड्रथाः परिवारिताः। शार्दूलेनेव मत्तेन मृगास्तृणचरा वने ॥०४-६४-२९॥
विराट उवाच॥
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः। यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे ॥०४-६४-३०॥
इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम्। येन मे त्वं च गावश्च रक्षिता देवसूनुना ॥०४-६४-३१॥
उत्तर उवाच॥
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्। स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥०४-६४-३२॥
वैशम्पायन उवाच॥
एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम्। वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् ॥०४-६४-३३॥
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना। प्रददौ तानि वासांसि विराटदुहितुः स्वयम् ॥०४-६४-३४॥
उत्तरा तु महार्हाणि विविधानि तनूनि च। प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी ॥०४-६४-३५॥
मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा। इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे ॥०४-६४-३६॥
ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ। सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः ॥०४-६४-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.