Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.065
वैशम्पायन उवाच॥
ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः। स्नाताः शुक्लाम्बरधराः समये चरितव्रताः ॥०४-६५-१॥
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः। अभिपद्मा यथा नागा भ्राजमाना महारथाः ॥०४-६५-२॥
विराटस्य सभां गत्वा भूमिपालासनेष्वथ। निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः ॥०४-६५-३॥
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः। आजगाम सभां कर्तुं राजकार्याणि सर्वशः ॥०४-६५-४॥
श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव। अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् ॥ मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥०४-६५-५॥
स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः। अथ राजासने कस्मादुपविष्टोऽस्यलङ्कृतः ॥०४-६५-६॥
परिहासेप्सया वाक्यं विराटस्य निशम्य तत्। स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् ॥०४-६५-७॥
इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति। ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ॥०४-६५-८॥
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः। अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥०४-६५-९॥
संसरन्ति दिशः सर्वा यशсоऽस्य गभस्तयः। उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः ॥०४-६५-१०॥
एनं दश सहस्राणि कुञ्जराणां तरस्विनाम्। अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥०४-६५-११॥
त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः। सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुययुः सदा ॥०४-६५-१२॥
एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः। अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥०४-६५-१३॥
एनं नित्यमुपासन्त कुरवः किङ्करा यथा। सर्वे च राजन्राजानो धनेश्वरमिवामराः ॥०४-६५-१४॥
एष सर्वान्महीपालान्करमाहारयत्तदा। वैश्यानिव महाराज विवशान्स्ववशानपि ॥०४-६५-१५॥
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्। उपजीवन्ति राजानमेनं सुचरितव्रतम् ॥०४-६५-१६॥
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान्। पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो ॥०४-६५-१७॥
एष धर्मे दमे चैव क्रोधे चापि यतव्रतः। महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥०४-६५-१८॥
श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः। सगणः सह कर्णेन सौबलेनापि वा विभुः ॥०४-६५-१९॥
न शक्यन्ते ह्यस्य गुणाः प्रसङ्ख्यातुं नरेश्वर। एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ॥०४-६५-२०॥
एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः। कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥०४-६५-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.