Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.066
विराट उवाच॥
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः। कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥०४-६६-१॥
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी। यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित् ॥०४-६६-२॥
अर्जुन उवाच॥
य एष बल्लवो ब्रूते सूदस्तव नराधिप। एष भीमो महाबाहुर्भीमवेगपराक्रमः ॥०४-६६-३॥
एष क्रोधवशान्हत्वा पर्वते गन्धमादने। सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ॥०४-६६-४॥
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्। व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव ॥०४-६६-५॥
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तपः। गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथौ ॥०४-६६-६॥
शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ। नानारथसहस्राणां समर्थौ पुरुषर्षभौ ॥०४-६६-७॥
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी। सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः ॥०४-६६-८॥
अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः। भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ॥०४-६६-९॥
उषिताः स्म महाराज सुखं तव निवेशने। अज्ञातवासमुषिता गर्भवास इव प्रजाः ॥०४-६६-१०॥
वैशम्पायन उवाच॥
यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः। तदार्जुनस्य वैराटिः कथयामास विक्रमम् ॥०४-६६-११॥
अयं स द्विषतां मध्ये मृगाणामिव केसरी। अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् ॥०४-६६-१२॥
अनेन विद्धो मातङ्गो महानेकेषुणा हतः। हिरण्यकक्ष्यः सङ्ग्रामे दन्ताभ्यामगमन्महीम् ॥०४-६६-१३॥
अनेन विजिता गावो जिताश्च कुरवो युधि। अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ ॥०४-६६-१४॥
तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान्। उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥०४-६६-१५॥
प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये। उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् ॥०४-६६-१६॥
उत्तर उवाच॥
अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम्। पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः ॥०४-६६-१७॥
विराट उवाच॥
अहं खल्वपि सङ्ग्रामे शत्रूणां वशमागतः। मोक्षितो भीमसेनेन गावश्च विजितास्तथा ॥०४-६६-१८॥
एतेषां बाहुवीर्येण यदस्माकं जयो मृधे। वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् ॥ प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् ॥०४-६६-१९॥
यदस्माभिरजानद्भिः किञ्चिदुक्तो नराधिपः। क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः ॥०४-६६-२०॥
वैशम्पायन उवाच॥
ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार। राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा ॥०४-६६-२१॥
पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान्। धनञ्जयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् ॥०४-६६-२२॥
समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः। युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ॥०४-६६-२३॥
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः। सम्प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् ॥०४-६६-२४॥
दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात्। दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः ॥०४-६६-२५॥
इदं च राज्यं नः पार्था यच्चान्यद्वसु किञ्चन। प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया ॥०४-६६-२६॥
उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः। अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥०४-६६-२७॥
एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जयम्। ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् ॥०४-६६-२८॥
प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव। युक्तश्चावां हि सम्बन्धो मत्स्यभारतसत्तमौ ॥०४-६६-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.