Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.001
वैशम्पायन उवाच॥
कृत्वा विवाहं तु कुरुप्रवीरा; स्तदाभिमन्योर्मुदितस्वपक्षाः। विश्रम्य चत्वार्युषसः प्रतीताः; सभां विराटस्य ततोऽभिजग्मुः ॥५-१-१॥
सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा। न्यस्तासना माल्यवती सुगन्धा; तामभ्ययुस्ते नरराजवर्याः ॥५-१-२॥
अथासनान्याविशतां पुरस्ता; दुभौ विराटद्रुपदौ नरेन्द्रौ। वृद्धश्च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम् ॥५-१-३॥
पाञ्चालराजस्य समीपतस्तु; शिनिप्रवीरः सहरौहिणेयः। मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ; जनार्दनश्चैव युधिष्ठिरश्च ॥५-१-४॥
सुताश्च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च। प्रद्युम्नसाम्बौ च युधि प्रवीरौ; विराटपुत्रश्च सहाभिमन्युः ॥५-१-५॥
सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव। उपाविशन्द्रौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु ॥५-१-६॥
तथोपविष्टेषु महारथेषु; विभ्राजमानाम्बरभूषणेषु। रराज सा राजवती समृद्धा; ग्रहैरिव द्यौर्विमलैरुपेता ॥५-१-७॥
ततः कथास्ते समवाययुक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः। तस्थुर्मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास्ते समुदीक्षमाणाः ॥५-१-८॥
कथान्तमासाद्य च माधवेन; सङ्घट्टिताः पाण्डवकार्यहेतोः। ते राजसिंहाः सहिता ह्यशृण्व; न्वाक्यं महार्थं च महोदयं च ॥५-१-९॥
कृष्ण उवाच॥
सर्वैर्भवद्भिर्विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम्। जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समयः कृतश्च ॥५-१-१०॥
शक्तैर्विजेतुं तरसा महीं च; सत्ये स्थितैस्तच्चरितं यथावत्। पाण्डोः सुतैस्तद्व्रतमुग्ररूपं; वर्षाणि षट्सप्त च भारताग्र्यैः ॥५-१-११॥
त्रयोदशश्चैव सुदुस्तरोऽय; मज्ञायमानैर्भवतां समीपे। क्लेशानसह्यांश्च तितिक्षमाणै; र्यथोषितं तद्विदितं च सर्वम् ॥५-१-१२॥
एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद्धितं स्यात्। तच्चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च ॥५-१-१३॥
अधर्मयुक्तं च न कामयेत; राज्यं सुराणामपि धर्मराजः। धर्मार्थयुक्तं च महीपतित्वं; ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ॥५-१-१४॥
पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्रपुत्रैः। मिथ्योपचारेण तथाप्यनेन; कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥५-१-१५॥
न चापि पार्थो विजितो रणे तैः; स्वतेजसा धृतराष्ट्रस्य पुत्रैः। तथापि राजा सहितः सुहृद्भि; रभीप्सतेऽनामयमेव तेषाम् ॥५-१-१६॥
यत्तत्स्वयं पाण्डुसुतैर्विजित्य; समाहृतं भूमिपतीन्निपीड्य। तत्प्रार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च ॥५-१-१७॥
बालास्त्विमे तैर्विविधैरुपायैः; सम्प्रार्थिता हन्तुममित्रसाहाः। राज्यं जिहीर्षद्भिरसद्भिरुग्रैः; सर्वं च तद्वो विदितं यथावत् ॥५-१-१८॥
तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य। सम्बन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक्च ॥५-१-१९॥
इमे च सत्येऽभिरताः सदैव; तं पारयित्वा समयं यथावत्। अतोऽन्यथा तैरुपचर्यमाणा; हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥५-१-२०॥
तैर्विप्रकारं च निशम्य राज्ञः; सुहृज्जनास्तान्परिवारयेयुः। युद्धेन बाधेयुरिमांस्तथैव; तैर्वध्यमाना युधि तांश्च हन्युः ॥५-१-२१॥
तथापि नेमेऽल्पतया समर्था; स्तेषां जयायेति भवेन्मतं वः। समेत्य सर्वे सहिताः सुहृद्भि; स्तेषां विनाशाय यतेयुरेव ॥५-१-२२॥
दुर्योधनस्यापि मतं यथाव; न्न ज्ञायते किं नु करिष्यतीति। अज्ञायमाने च मते परस्य; किं स्यात्समारभ्यतमं मतं वः ॥५-१-२३॥
तस्मादितो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषोऽप्रमत्तः। दूतः समर्थः प्रशमाय तेषां; राज्यार्धदानाय युधिष्ठिरस्य ॥५-१-२४॥
निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च। समाददे वाक्यमथाग्रजोऽस्य; सम्पूज्य वाक्यं तदतीव राजन् ॥५-१-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.