05.002
बलदेव उवाच॥
श्रुतं भवद्भिर्गदपूर्वजस्य; वाक्यं यथा धर्मवदर्थवच्च। अजातशत्रोश्च हितं हितं च; दुर्योधनस्यापि तथैव राज्ञः ॥५-२-१॥
अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास्तस्य कृते यतन्ते। प्रदाय चार्धं धृतराष्ट्रपुत्रः; सुखी सहास्माभिरतीव मोदेत् ॥५-२-२॥
लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक्प्रवृत्तेषु परेषु चैव। ध्रुवं प्रशान्ताः सुखमाविशेयु; स्तेषां प्रशान्तिश्च हितं प्रजानाम् ॥५-२-३॥
दुर्योधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य। प्रियं मम स्याद्यदि तत्र कश्चि; द्व्रजेच्छमार्थं कुरुपाण्डवानाम् ॥५-२-४॥
स भीष्ममामन्त्र्य कुरुप्रवीरं; वैचित्रवीर्यं च महानुभावम्। द्रोणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम् ॥५-२-५॥
सर्वे च येऽन्ये धृतराष्ट्रपुत्रा; बलप्रधाना निगमप्रधानाः। स्थिताश्च धर्मेषु यथा स्वकेषु; लोकप्रवीराः श्रुतकालवृद्धाः ॥५-२-६॥
एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च सङ्गतेषु। ब्रवीतु वाक्यं प्रणिपातयुक्तं; कुन्तीसुतस्यार्थकरं यथा स्यात् ॥५-२-७॥
सर्वास्ववस्थासु च ते न कौट्या; द्ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः। प्रियाभ्युपेतस्य युधिष्ठिरस्य; द्यूते प्रमत्तस्य हृतं च राज्यम् ॥५-२-८॥
निवार्यमाणश्च कुरुप्रवीरैः; सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः। गान्धारराजस्य सुतं मताक्षं; समाह्वयेद्देवितुमाजमीढः ॥५-२-९॥
दुरोदरास्तत्र सहस्रशोऽन्ये; युधिष्ठिरो यान्विषहेत जेतुम्। उत्सृज्य तान्सौबलमेव चायं; समाह्वयत्तेन जितोऽक्षवत्याम् ॥५-२-१०॥
स दीव्यमानः प्रतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु। संरम्भमाणो विजितः प्रसह्य; तत्रापराधः शकुनेर्न कश्चित् ॥५-२-११॥
तस्मात्प्रणम्यैव वचो ब्रवीतु; वैचित्रवीर्यं बहुसामयुक्तम्। तथा हि शक्यो धृतराष्ट्रपुत्रः; स्वार्थे नियोक्तुं पुरुषेण तेन ॥५-२-१२॥
वैशम्पायन उवाच॥
एवं ब्रुवत्येव मधुप्रवीरे; शिनिप्रवीरः सहसोत्पपात। तच्चापि वाक्यं परिनिन्द्य तस्य; समाददे वाक्यमिदं समन्युः ॥५-२-१३॥