Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.003
सात्यकिरुवाच॥
यादृशः पुरुषस्यात्मा तादृशं सम्प्रभाषते। यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे ॥५-३-१॥
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा। उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥५-३-२॥
एकस्मिन्नेव जायेते कुले क्लीबमहारथौ। फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥५-३-३॥
नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज। ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥५-३-४॥
कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्। लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥५-३-५॥
समाहूय महात्मानं जितवन्तोऽक्षकोविदाः। अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः ॥५-३-६॥
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह। अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥५-३-७॥
समाहूय तु राजानं क्षत्रधर्मरतं सदा। निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥५-३-८॥
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्। वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ॥५-३-९॥
यद्ययं परवित्तानि कामयेत युधिष्ठिरः। एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ॥५-३-१०॥
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः। निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति ॥५-३-११॥
अनुनीता हि भीष्मेण द्रोणेन च महात्मना। न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ॥५-३-१२॥
अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात्। पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ॥५-३-१३॥
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः। गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ॥५-३-१४॥
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः। वेगं समर्थाः संसोढुं वज्रस्येव महीधराः ॥५-३-१५॥
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि। मां चापि विषहेत्को नु कश्च भीमं दुरासदम् ॥५-३-१६॥
यमौ च दृढधन्वानौ यमकल्पौ महाद्युती। को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् ॥५-३-१७॥
पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान्। समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ॥५-३-१८॥
सौभद्रं च महेष्वासममरैरपि दुःसहम्। गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् ॥५-३-१९॥
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह। कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् ॥५-३-२०॥
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः। अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ॥५-३-२१॥
हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः। निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः ॥५-३-२२॥
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः। निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥५-३-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.