Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.012
शल्य उवाच॥
क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः। अब्रुवन्देवराजानं नहुषं घोरदर्शनम् ॥५-१२-१॥
देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो। त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् ॥५-१२-२॥
जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः। परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर ॥५-१२-३॥
निवर्तय मनः पापात्परदाराभिमर्शनात्। देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय ॥५-१२-४॥
एवमुक्तो न जग्राह तद्वचः काममोहितः। अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः ॥५-१२-५॥
अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी। जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः ॥५-१२-६॥
बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा। वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः ॥५-१२-७॥
उपतिष्ठतु मां देवी एतदस्या हितं परम्। युष्माकं च सदा देवाः शिवमेवं भविष्यति ॥५-१२-८॥
देवा ऊचुः॥
इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते। जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर ॥५-१२-९॥
शल्य उवाच॥
इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत। जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः ॥५-१२-१०॥
जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि। दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम ॥५-१२-११॥
ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते। प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् ॥५-१२-१२॥
इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः। वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी ॥५-१२-१३॥
एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम्। उवाच रुदती दीना बृहस्पतिमिदं वचः ॥५-१२-१४॥
नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम्। शरणागतास्मि ते ब्रह्मंस्त्राहि मां महतो भयात् ॥५-१२-१५॥
बृहस्पतिरुवाच॥
शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम्। धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते ॥५-१२-१६॥
नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः। श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् ॥५-१२-१७॥
नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः। अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् ॥५-१२-१८॥
न तस्य बीजं रोहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले। भीतं प्रपन्नं प्रददाति शत्रवे; न सोऽन्तरं लभते त्राणमिच्छन् ॥५-१२-१९॥
मोघमन्नं विन्दति चाप्यचेताः; स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः। भीतं प्रपन्नं प्रददाति यो वै; न तस्य हव्यं प्रतिगृह्णन्ति देवाः ॥५-१२-२०॥
प्रमीयते चास्य प्रजा ह्यकाले; सदा विवासं पितरोऽस्य कुर्वते। भीतं प्रपन्नं प्रददाति शत्रवे; सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥५-१२-२१॥
एतदेवं विजानन्वै न दास्यामि शचीमिमाम्। इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम् ॥५-१२-२२॥
अस्या हितं भवेद्यच्च मम चापि हितं भवेत्। क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् ॥५-१२-२३॥
शल्य उवाच॥
अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम्। कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते ॥५-१२-२४॥
बृहस्पतिरुवाच॥
नहुषं याचतां देवी किञ्चित्कालान्तरं शुभा। इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति ॥५-१२-२५॥
बहुविघ्नकरः कालः कालः कालं नयिष्यति। दर्पितो बलवांश्चापि नहुषो वरसंश्रयात् ॥५-१२-२६॥
शल्य उवाच॥
ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन्। ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम् ॥ एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् ॥५-१२-२७॥
ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः। ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया ॥५-१२-२८॥
त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम्। एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति ॥५-१२-२९॥
क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः। नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति ॥५-१२-३०॥
एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये। अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् ॥५-१२-३१॥
दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम्। समहृष्यत दुष्टात्मा कामोपहतचेतनः ॥५-१२-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.