05.013
शल्य उवाच॥
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट्तदा। त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते ॥ भजस्व मां वरारोहे पतित्वे वरवर्णिनि ॥५-१३-१॥
एवमुक्ता तु सा देवी नहुषेण पतिव्रता। प्रावेपत भयोद्विग्ना प्रवाते कदली यथा ॥५-१३-२॥
नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम्। देवराजमथोवाच नहुषं घोरदर्शनम् ॥५-१३-३॥
कालमिच्छाम्यहं लब्धुं किञ्चित्त्वत्तः सुरेश्वर। न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः ॥५-१३-४॥
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो। ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते ॥ एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ॥५-१३-५॥
नहुष उवाच॥
एवं भवतु सुश्रोणि यथा मामभिभाषसे। ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ॥५-१३-६॥
शल्य उवाच॥
नहुषेण विसृष्टा च निश्चक्राम ततः शुभा। बृहस्पतिनिकेतं सा जगाम च तपस्विनी ॥५-१३-७॥
तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः। मन्त्रयामासुरेकाग्राः शक्रार्थं राजसत्तम ॥५-१३-८॥
देवदेवेन सङ्गम्य विष्णुना प्रभविष्णुना। ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥५-१३-९॥
ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः। गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः ॥ रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥५-१३-१०॥
त्वद्वीर्यान्निहते वृत्रे वासवो ब्रह्महत्यया। वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश ॥५-१३-११॥
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्। मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥५-१३-१२॥
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः। पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ॥५-१३-१३॥
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः। कञ्चित्कालमिमं देवा मर्षयध्वमतन्द्रिताः ॥५-१३-१४॥
श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम्। ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ॥ यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः ॥५-१३-१५॥
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः। ववृते पावनार्थं वै ब्रह्महत्यापहो नृप ॥५-१३-१६॥
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च। पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ॥५-१३-१७॥
संविभज्य च भूतेषु विसृज्य च सुरेश्वरः। विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान् ॥५-१३-१८॥
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा च बलसूदनः। तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम् ॥५-१३-१९॥
ततः शचीपतिर्वीरः पुनरेव व्यनश्यत। अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ॥५-१३-२०॥
प्रनष्टे तु ततः शक्रे शची शोकसमन्विता। हा शक्रेति तदा देवी विललाप सुदुःखिता ॥५-१३-२१॥
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि। एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि ॥५-१३-२२॥
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे। देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ॥५-१३-२३॥
प्रयता च निशां देवीमुपातिष्ठत तत्र सा। पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् ॥५-१३-२४॥
यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे। इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम् ॥५-१३-२५॥