Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.014
शल्य उवाच॥
अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिः। तां वयोरूपसम्पन्नां दृष्ट्वा देवीमुपस्थिताम् ॥५-१४-१॥
इन्द्राणी सम्प्रहृष्टा सा सम्पूज्यैनामपृच्छत। इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ॥५-१४-२॥
उपश्रुतिरुवाच॥
उपश्रुतिरहं देवि तवान्तिकमुपागता। दर्शनं चैव सम्प्राप्ता तव सत्येन तोषिता ॥५-१४-३॥
पतिव्रतासि युक्ता च यमेन नियमेन च। दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् ॥ क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् ॥५-१४-४॥
शल्य उवाच॥
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात्। देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः ॥ हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् ॥५-१४-५॥
समुद्रं च समासाद्य बहुयोजनविस्तृतम्। आससाद महाद्वीपं नानाद्रुमलतावृतम् ॥५-१४-६॥
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम्। शतयोजनविस्तीर्णं तावदेवायतं शुभम् ॥५-१४-७॥
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत। षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः ॥५-१४-८॥
पद्मस्य भित्त्वा नालं च विवेश सहिता तया। बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ॥५-१४-९॥
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम्। सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा ॥५-१४-१०॥
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः। स्तूयमानस्ततो देवः शचीमाह पुरंदरः ॥५-१४-११॥
किमर्थमसि सम्प्राप्ता विज्ञातश्च कथं त्वहम्। ततः सा कथयामास नहुषस्य विचेष्टितम् ॥५-१४-१२॥
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः। दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो ॥ उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम ॥५-१४-१३॥
यदि न त्रास्यसि विभो करिष्यति स मां वशे। एतेन चाहं सन्तप्ता प्राप्ता शक्र तवान्तिकम् ॥ जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् ॥५-१४-१४॥
प्रकाशयस्व चात्मानं दैत्यदानवसूदन। तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ॥५-१४-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.