Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.017
शल्य उवाच॥
अथ सञ्चिन्तयानस्य देवराजस्य धीमतः। नहुषस्य वधोपायं लोकपालैः सहैव तैः ॥ तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत ॥५-१७-१॥
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान्। विश्वरूपविनाशेन वृत्रासुरवधेन च ॥५-१७-२॥
दिष्ट्या च नहुषो भ्रष्टो देवराज्यात्पुरंदर। दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन ॥५-१७-३॥
इन्द्र उवाच॥
स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव। पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ॥५-१७-४॥
शल्य उवाच॥
पूजितं चोपविष्टं तमासने मुनिसत्तमम्। पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ॥५-१७-५॥
एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम। परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ॥५-१७-६॥
अगस्त्य उवाच॥
शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान्। स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः ॥५-१७-७॥
श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम्। देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ॥ पप्रच्छुः संशयं देव नहुषं जयतां वर ॥५-१७-८॥
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम्। एते प्रमाणं भवत उताहो नेति वासव ॥ नहुषो नेति तानाह तमसा मूढचेतनः ॥५-१७-९॥
ऋषय ऊचुः॥
अधर्मे सम्प्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे। प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ॥५-१७-१०॥
अगस्त्य उवाच॥
ततो विवदमानः स मुनिभिः सह वासव। अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ॥५-१७-११॥
तेनाभूद्धततेजाः स निःश्रीकश्च शचीपते। ततस्तमहमाविग्नमवोचं भयपीडितम् ॥५-१७-१२॥
यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम्। अदुष्टं दूषयसि वै यच्च मूर्ध्न्यस्पृशः पदा ॥५-१७-१३॥
यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान्। वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः ॥५-१७-१४॥
ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम्। दश वर्षसहस्राणि सर्परूपधरो महान् ॥ विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ॥५-१७-१५॥
एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम। दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः ॥५-१७-१६॥
त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते। जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः ॥५-१७-१७॥
शल्य उवाच॥
ततो देवा भृशं तुष्टा महर्षिगणसंवृताः। पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ॥५-१७-१८॥
गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः। सरांसि सरितः शैलाः सागराश्च विशां पते ॥५-१७-१९॥
उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन्। हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता ॥ दिष्ट्या पापसमाचारः कृतः सर्पो महीतले ॥५-१७-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.