05.028
युधिष्ठिर उवाच॥
असंशयं सञ्जय सत्यमेत; द्धर्मो वरः कर्मणां यत्त्वमात्थ। ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं; यदि धर्मं यद्यधर्मं चरामि ॥५-२८-१॥
यत्राधर्मो धर्मरूपाणि बिभ्र; द्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः। तथा धर्मो धारयन्धर्मरूपं; विद्वांसस्तं सम्प्रपश्यन्ति बुद्ध्या ॥५-२८-२॥
एवमेतावापदि लिङ्गमेत; द्धर्माधर्मौ वृत्तिनित्यौ भजेताम्। आद्यं लिङ्गं यस्य तस्य प्रमाण; मापद्धर्मं सञ्जय तं निबोध ॥५-२८-३॥
लुप्तायां तु प्रकृतौ येन कर्म; निष्पादयेत्तत्परीप्सेद्विहीनः। प्रकृतिस्थश्चापदि वर्तमान; उभौ गर्ह्यौ भवतः सञ्जयैतौ ॥५-२८-४॥
अविलोपमिच्छतां ब्राह्मणानां; प्रायश्चित्तं विहितं यद्विधात्रा। आपद्यथाकर्मसु वर्तमाना; न्विकर्मस्थान्सञ्जय गर्हयेत ॥५-२८-५॥
मनीषिणां तत्त्वविच्छेदनाय; विधीयते सत्सु वृत्तिः सदैव। अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वोच्छेदं साधु मन्येत तेभ्यः ॥५-२८-६॥
तदर्था नः पितरो ये च पूर्वे; पितामहा ये च तेभ्यः परेऽन्ये। प्रज्ञैषिणो ये च हि कर्म चक्रु; र्नास्त्यन्ततो नास्ति नास्तीति मन्ये ॥५-२८-७॥
यत्किञ्चिदेतद्वित्तमस्यां पृथिव्यां; यद्देवानां त्रिदशानां परत्र। प्राजापत्यं त्रिदिवं ब्रह्मलोकं; नाधर्मतः सञ्जय कामये तत् ॥५-२८-८॥
धर्मेश्वरः कुशलो नीतिमांश्चा; प्युपासिता ब्राह्मणानां मनीषी। नानाविधांश्चैव महाबलांश्च; राजन्यभोजाननुशास्ति कृष्णः ॥५-२८-९॥
यदि ह्यहं विसृजन्स्यामगर्ह्यो; युध्यमानो यदि जह्यां स्वधर्मम्। महायशाः केशवस्तद्ब्रवीतु; वासुदेवस्तूभयोरर्थकामः ॥५-२८-१०॥
शैनेया हि चैत्रकाश्चान्धकाश्च; वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च। उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून्सुहृदो नन्दयन्ति ॥५-२८-११॥
वृष्ण्यन्धका ह्युग्रसेनादयो वै; कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः। मनस्विनः सत्यपराक्रमाश्च; महाबला यादवा भोगवन्तः ॥५-२८-१२॥
काश्यो बभ्रुः श्रियमुत्तमां गतो; लब्ध्वा कृष्णं भ्रातरमीशितारम्। यस्मै कामान्वर्षति वासुदेवो; ग्रीष्मात्यये मेघ इव प्रजाभ्यः ॥५-२८-१३॥
ईदृशोऽयं केशवस्तात भूयो; विद्मो ह्येनं कर्मणां निश्चयज्ञम्। प्रियश्च नः साधुतमश्च कृष्णो; नातिक्रमे वचनं केशवस्य ॥५-२८-१४॥