Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.027
सञ्जय उवाच॥
धर्मे नित्या पाण्डव ते विचेष्टा; लोके श्रुता दृश्यते चापि पार्थ। महास्रावं जीवितं चाप्यनित्यं; सम्पश्य त्वं पाण्डव मा विनीनशः ॥५-२७-१॥
न चेद्भागं कुरवोऽन्यत्र युद्धात्प्रयच्छन्ते तुभ्यमजातशत्रो। भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम् ॥५-२७-२॥
अल्पकालं जीवितं यन्मनुष्ये; महास्रावं नित्यदुःखं चलं च। भूयश्च तद्वयसो नानुरूपं; तस्मात्पापं पाण्डव मा प्रसार्षीः ॥५-२७-३॥
कामा मनुष्यं प्रसजन्त एव; धर्मस्य ये विघ्नमूलं नरेन्द्र। पूर्वं नरस्तान्धृतिमान्विनिघ्नँ; ल्लोके प्रशंसां लभतेऽनवद्याम् ॥५-२७-४॥
निबन्धनी ह्यर्थतृष्णेह पार्थ; तामेषतो बाध्यते धर्म एव। धर्मं तु यः प्रवृणीते स बुद्धः; कामे गृद्धो हीयतेऽर्थानुरोधात् ॥५-२७-५॥
धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भाति। हानेन धर्मस्य महीमपीमां; लब्ध्वा नरः सीदति पापबुद्धिः ॥५-२७-६॥
वेदोऽधीतश्चरितं ब्रह्मचर्यं; यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम्। परं स्थानं मन्यमानेन भूय; आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥५-२७-७॥
सुखप्रिये सेवमानोऽतिवेलं; योगाभ्यासे यो न करोति कर्म। वित्तक्षये हीनसुखोऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः ॥५-२७-८॥
एवं पुनरर्थचर्याप्रसक्तो; हित्वा धर्मं यः प्रकरोत्यधर्मम्। अश्रद्दधत्परलोकाय मूढो; हित्वा देहं तप्यते प्रेत्य मन्दः ॥५-२७-९॥
न कर्मणां विप्रणाशोऽस्त्यमुत्र; पुण्यानां वाप्यथ वा पापकानाम्। पूर्वं कर्तुर्गच्छति पुण्यपापं; पश्चात्त्वेतदनुयात्येव कर्ता ॥५-२७-१०॥
न्यायोपेतं ब्राह्मणेभ्यो यदन्नं; श्रद्धापूतं गन्धरसोपपन्नम्। अन्वाहार्येषूत्तमदक्षिणेषु; तथारूपं कर्म विख्यायते ते ॥५-२७-११॥
इह क्षेत्रे क्रियते पार्थ कार्यं; न वै किञ्चिद्विद्यते प्रेत्य कार्यम्। कृतं त्वया पारलोक्यं च कार्यं; पुण्यं महत्सद्भिरनुप्रशस्तम् ॥५-२७-१२॥
जहाति मृत्युं च जरां भयं च; न क्षुत्पिपासे मनसश्चाप्रियाणि। न कर्तव्यं विद्यते तत्र किं चि; दन्यत्र वै इन्द्रियप्रीणनार्थात् ॥५-२७-१३॥
एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदयस्य प्रियेण। स क्रोधजं पाण्डव हर्षजं च; लोकावुभौ मा प्रहासीश्चिराय ॥५-२७-१४॥
अन्तं गत्वा कर्मणां या प्रशंसा; सत्यं दमश्चार्जवमानृशंस्यम्। अश्वमेधो राजसूयस्तथेष्टः; पापस्यान्तं कर्मणो मा पुनर्गाः ॥५-२७-१५॥
तच्चेदेवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिराय। निवसध्वं वर्षपूगान्वनेषु; दुःखं वासं पाण्डवा धर्महेतोः ॥५-२७-१६॥
अप्रव्रज्ये योजयित्वा पुरस्ता; दात्माधीनं यद्बलं ते तदासीत्। नित्यं पाञ्चालाः सचिवास्तवेमे; जनार्दनो युयुधानश्च वीरः ॥५-२७-१७॥
मत्स्यो राजा रुक्मरथः सपुत्रः; प्रहारिभिः सह पुत्रैर्विराटः। राजानश्च ये विजिताः पुरस्ता; त्त्वामेव ते संश्रयेयुः समस्ताः ॥५-२७-१८॥
महासहायः प्रतपन्बलस्थः; पुरस्कृतो वासुदेवार्जुनाभ्याम्। वरान्हनिष्यन्द्विषतो रङ्गमध्ये; व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥५-२७-१९॥
बलं कस्माद्वर्धयित्वा परस्य; निजान्कस्मात्कर्शयित्वा सहायान्। निरुष्य कस्माद्वर्षपूगान्वनेषु; युयुत्ससे पाण्डव हीनकालम् ॥५-२७-२०॥
अप्रज्ञो वा पाण्डव युध्यमानो; अधर्मज्ञो वा भूतिपथाद्व्यपैति। प्रज्ञावान्वा बुध्यमानोऽपि धर्मं; संरम्भाद्वा सोऽपि भूतेरपैति ॥५-२७-२१॥
नाधर्मे ते धीयते पार्थ बुद्धि; र्न संरम्भात्कर्म चकर्थ पापम्। अद्धा किं तत्कारणं यस्य हेतोः; प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥५-२७-२२॥
अव्याधिजं कटुकं शीर्षरोगं; यशोमुषं पापफलोदयं च। सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ॥५-२७-२३॥
पापानुबन्धं को नु तं कामयेत; क्षमैव ते ज्यायसी नोत भोगाः। यत्र भीष्मः शान्तनवो हतः स्या; द्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥५-२७-२४॥
कृपः शल्यः सौमदत्तिर्विकर्णो; विविंशतिः कर्णदुर्योधनौ च। एतान्हत्वा कीदृशं तत्सुखं स्या; द्यद्विन्देथास्तदनुब्रूहि पार्थ ॥५-२७-२५॥
लब्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि त्वं प्रजह्याः। प्रियाप्रिये सुखदुःखे च राज; न्नेवं विद्वान्नैव युद्धं कुरुष्व ॥५-२७-२६॥
अमात्यानां यदि कामस्य हेतो; रेवंयुक्तं कर्म चिकीर्षसि त्वम्। अपाक्रमेः सम्प्रदाय स्वमेभ्यो; मा गास्त्वं वै देवयानात्पथोऽद्य ॥५-२७-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.