Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.050
धृतराष्ट्र उवाच॥
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः। एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥५-५०-१॥
भीमसेनाद्धि मे भूयो भयं सञ्जायते महत्। क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ॥५-५०-२॥
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्। भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः ॥५-५०-३॥
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः। सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ॥५-५०-४॥
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः। अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥५-५०-५॥
महावेगो महोत्साहो महाबाहुर्महाबलः। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥५-५०-६॥
ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः। कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ॥५-५०-७॥
शैक्यायसमयीं घोरां गदां काञ्चनभूषिताम्। मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ॥५-५०-८॥
यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत्। मामकेषु तथा भीमो बलेषु विचरिष्यति ॥५-५०-९॥
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः। बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा ॥५-५०-१०॥
उद्वेपते मे हृदयं यदा दुर्योधनादयः। बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः ॥५-५०-११॥
तस्य वीर्येण सङ्क्लिष्टा नित्यमेव सुता मम। स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥५-५०-१२॥
ग्रसमानमनीकानि नरवारणवाजिनाम्। पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥५-५०-१३॥
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे। सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् ॥५-५०-१४॥
अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना। तदैव न हताः सर्वे मम पुत्रा मनस्विना ॥५-५०-१५॥
येन भीमबला यक्षा राक्षसाश्च समाहताः। कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ॥५-५०-१६॥
न स जातु वशे तस्थौ मम बालोऽपि सञ्जय। किं पुनर्मम दुष्पुत्रैः क्लिष्टः सम्प्रति पाण्डवः ॥५-५०-१७॥
निष्ठुरः स च नैष्ठुर्याद्भज्येदपि न संनमेत्। तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः ॥५-५०-१८॥
बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः। प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥५-५०-१९॥
जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान्। अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥५-५०-२०॥
इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा। रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ॥५-५०-२१॥
आयसेन स दण्डेन रथान्नागान्हयान्नरान्। हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः ॥५-५०-२२॥
अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः। मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः ॥५-५०-२३॥
निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्चनीं गदाम्। शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ॥५-५०-२४॥
अपारमप्लवागाधं समुद्रं शरवेगिनम्। भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ॥५-५०-२५॥
क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः। विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः ॥५-५०-२६॥
संयुगं ये करिष्यन्ति नररूपेण वायुना। नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥५-५०-२७॥
शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम्। प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥५-५०-२८॥
गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान्। सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥५-५०-२९॥
उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान्। प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः ॥५-५०-३०॥
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः। अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥५-५०-३१॥
वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम्। नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥५-५०-३२॥
प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान्। प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥५-५०-३३॥
कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान्। आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥५-५०-३४॥
गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान्। प्रवेक्ष्यति महासेनां पुत्राणां मम सञ्जय ॥५-५०-३५॥
वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः। मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय ॥५-५०-३६॥
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा। वासुदेवसहायेन जरासन्धो निपातितः ॥५-५०-३७॥
कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता। मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ॥५-५०-३८॥
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः। ते न तस्य वशं जग्मुः केवलं दैवमेव वा ॥५-५०-३९॥
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना। अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥५-५०-४०॥
दीर्घकालेन संसिक्तं विषमाशीविषो यथा। स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय ॥५-५०-४१॥
महेन्द्र इव वज्रेण दानवान्देवसत्तमः। भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ॥५-५०-४२॥
अविषह्यमनावार्यं तीव्रवेगपराक्रमम्। पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥५-५०-४३॥
अगदस्याप्यधनुषो विरथस्य विवर्मणः। बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥५-५०-४४॥
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा। जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः ॥५-५०-४५॥
आर्यव्रतं तु जानन्तः सङ्गरान्न बिभित्सवः। सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥५-५०-४६॥
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः। पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥५-५०-४७॥
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः। त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ॥५-५०-४८॥
यथैषां मामकास्तात तथैषां पाण्डवा अपि। पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥५-५०-४९॥
यत्त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय। तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ॥५-५०-५०॥
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः। निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् ॥५-५०-५१॥
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान्। विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् ॥५-५०-५२॥
न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय। भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम् ॥५-५०-५३॥
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान्। सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥५-५०-५४॥
किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा। पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥५-५०-५५॥
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम्। विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् ॥५-५०-५६॥
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत्। मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ॥५-५०-५७॥
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः। चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥५-५०-५८॥
किं नु कार्यं कथं कुर्यां क्व नु गच्छामि सञ्जय। एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥५-५०-५९॥
अवशोऽहं पुरा तात पुत्राणां निहते शते। श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥५-५०-६०॥
यथा निदाघे ज्वलनः समिद्धो; दहेत्कक्षं वायुना चोद्यमानः। गदाहस्तः पाण्डवस्तद्वदेव; हन्ता मदीयान्सहितोऽर्जुनेन ॥५-५०-६१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.