Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.049
धृतराष्ट्र उवाच॥
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत। श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः ॥५-४९-१॥
किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः। कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते ॥५-४९-२॥
के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः। निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ॥५-४९-३॥
सञ्जय उवाच॥
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह। युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ॥५-४९-४॥
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः। आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ॥५-४९-५॥
तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्। पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम् ॥५-४९-६॥
आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम्। पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम् ॥५-४९-७॥
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः। क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम् ॥५-४९-८॥
धृतराष्ट्र उवाच॥
सञ्जयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत। धृष्टद्युम्नेन सेनान्या सोमकाः किम्बला इव ॥५-४९-९॥
वैशम्पायन उवाच॥
गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि। निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव ॥ तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् ॥५-४९-१०॥
तदाचचक्षे पुरुषः सभायां राजसंसदि। सञ्जयोऽयं महाराज मूर्च्छितः पतितो भुवि ॥ वाचं न सृजते काञ्चिद्धीनप्रज्ञोऽल्पचेतनः ॥५-४९-११॥
धृतराष्ट्र उवाच॥
अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान्। तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ॥५-४९-१२॥
वैशम्पायन उवाच॥
सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत्। धृतराष्ट्रं महाराज सभायां कुरुसंसदि ॥५-४९-१३॥
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान्। मत्स्यराजगृहावासादवरोधेन कर्शितान् ॥ शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ॥५-४९-१४॥
यो नैव रोषान्न भयान्न कामान्नार्थकारणात्। न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथञ्चन ॥५-४९-१५॥
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः। अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥५-४९-१६॥
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन। यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः ॥ तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥५-४९-१७॥
निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात्। य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥५-४९-१८॥
याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान्। तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥५-४९-१९॥
यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते। दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ॥५-४९-२०॥
कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः। प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् ॥५-४९-२१॥
यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम्। तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥५-४९-२२॥
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः। अजयद्यः पुरा वीरो युध्यमानं पुरंदरम् ॥५-४९-२३॥
यः स साक्षान्महादेवं गिरिशं शूलपाणिनम्। तोषयामास युद्धेन देवदेवमुमापतिम् ॥५-४९-२४॥
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः। तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥५-४९-२५॥
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम्। स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ॥५-४९-२६॥
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता। माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥५-४९-२७॥
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत्। तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥५-४९-२८॥
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः। अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च ॥५-४९-२९॥
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत। यवीयसा नृवीरेण माद्रीनन्दिकरेण च ॥५-४९-३०॥
तपश्चचार या घोरं काशिकन्या पुरा सती। भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ॥५-४९-३१॥
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान्। स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् ॥५-४९-३२॥
यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः। शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥५-४९-३३॥
यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल। महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥५-४९-३४॥
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः। सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ॥५-४९-३५॥
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः। तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ॥५-४९-३६॥
य आसीच्छरणं काले पाण्डवानां महात्मनाम्। रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत ॥५-४९-३७॥
यः स काशिपती राजा वाराणस्यां महारथः। स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ॥५-४९-३८॥
शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः। आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत ॥५-४९-३९॥
यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे। तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ॥५-४९-४०॥
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः। दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ॥ तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ॥५-४९-४१॥
यः संश्रयः पाण्डवानां देवानामिव वासवः। तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥५-४९-४२॥
तथा चेदिपतेर्भ्राता शरभो भरतर्षभ। करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ॥५-४९-४३॥
जारासन्धिः सहदेवो जयत्सेनश्च तावुभौ। द्रुपदश्च महातेजा बलेन महता वृतः ॥ त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः ॥५-४९-४४॥
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः। शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः ॥५-४९-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.