05.125
Pancharatra: Duryodhana rejects Pandavas claim to the kingdom and sights the dharma of the kshatriyas to fight and give up lives in battle field.
शवैशम्पायन उवाच॥
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि । प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ॥५-१२५-१॥
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव । मामेव हि विशेषेण विभाष्य परिगर्हसे ॥५-१२५-२॥
भक्तिवादेन पार्थानामकस्मान्मधुसूदन । भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम् ॥५-१२५-३॥
भवान्क्षत्ता च राजा च आचार्यो वा पितामहः । मामेव परिगर्हन्ते नान्यं कञ्चन पार्थिवम् ॥५-१२५-४॥
न चाहं लक्षये कञ्चिद्व्यभिचारमिहात्मनः । अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ॥५-१२५-५॥
न चाहं कञ्चिदत्यर्थमपराधमरिंदम । विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव ॥५-१२५-६॥
प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन । जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् ॥५-१२५-७॥
यत्पुनर्द्रविणं किञ्चित्तत्राजीयन्त पाण्डवाः । तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन ॥५-१२५-८॥
अपराधो न चास्माकं यत्ते ह्यक्षपराजिताः । अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् ॥५-१२५-९॥
केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह । अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ॥५-१२५-१०॥
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि । धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह ॥५-१२५-११॥
न चापि वयमुग्रेण कर्मणा वचनेन वा । वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः ॥५-१२५-१२॥
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् । उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ॥५-१२५-१३॥
न हि भीष्मकृपद्रोणाः सगणा मधुसूदन । देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥५-१२५-१४॥
स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे । शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत् ॥५-१२५-१५॥
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन । यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम् ॥५-१२५-१६॥
ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे । अप्रणम्यैव शत्रूणां न नस्तप्स्यति माधव ॥५-१२५-१७॥
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् । भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित् ॥५-१२५-१८॥
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् । अप्यपर्वणि भज्येत न नमेदिह कस्यचित् ॥५-१२५-१९॥
इति मातङ्गवचनं परीप्सन्ति हितेप्सवः । धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः ॥५-१२५-२०॥
अचिन्तयन्कञ्चिदन्यं यावज्जीवं तथाचरेत् । एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा ॥५-१२५-२१॥
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत् । न स लभ्यः पुनर्जातु मयि जीवति केशव ॥५-१२५-२२॥
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन । न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव ॥५-१२५-२३॥
यद्यदेयं पुरा दत्तं राज्यं परवतो मम । अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन ॥५-१२५-२४॥
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन । ध्रियमाणे महाबाहो मयि सम्प्रति केशव ॥५-१२५-२५॥
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण माधव । तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥५-१२५-२६॥