Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.129
Pancharatra: When Duryodhana attempts to capture Krishna, Krishna manifests his universal form, and departs from the assembly.
वैशम्पायन उवाच॥
विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा । दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥५-१२९-१॥
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन । परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥५-१२९-२॥
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः । इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥५-१२९-३॥
एवमुक्त्वा जहासोच्चैः केशवः परवीरहा । तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ॥ अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः ॥५-१२९-४॥
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् । लोकपाला भुजेष्वासन्नग्निरास्यादजायत ॥५-१२९-५॥
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि । मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ॥बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् ॥५-१२९-६॥
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ । दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥५-१२९-७॥
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः । अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः ॥५-१२९-८॥
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः । शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ॥५-१२९-९॥
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च । नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥५-१२९-१०॥
नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः । प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ॥ रोमकूपेषु च तथा सूर्यस्येव मरीचयः ॥५-१२९-११॥
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः । न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ॥५-१२९-१२॥
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् । सञ्जयं च महाभागमृषींश्चैव तपोधनान् ॥ प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ॥५-१२९-१३॥
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले । देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥५-१२९-१४॥
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे । विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥५-१२९-१५॥
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् । तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः ॥५-१२९-१६॥
ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च । ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥५-१२९-१७॥
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः । तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा ॥५-१२९-१८॥
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः । अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् ॥५-१२९-१९॥
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् । निश्चक्राम ततः शौरिः सधूम इव पावकः ॥५-१२९-२०॥
ततो रथेन शुभ्रेण महता किङ्किणीकिना । हेमजालविचित्रेण लघुना मेघनादिना ॥५-१२९-२१॥
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना । सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥५-१२९-२२॥
तथैव रथमास्थाय कृतवर्मा महारथः । वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत ॥५-१२९-२३॥
उपस्थितरथं शौरिं प्रयास्यन्तमरिंदमम् । धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥५-१२९-२४॥
यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन । प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन ॥५-१२९-२५॥
कुरूणां शममिच्छन्तं यतमानं च केशव । विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ॥५-१२९-२६॥
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव । ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः ॥५-१२९-२७॥
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः । शमे प्रयतमानं मां सर्वयत्नेन माधव ॥५-१२९-२८॥
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम् । द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥५-१२९-२९॥
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि । यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः ॥५-१२९-३०॥
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः । आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ॥५-१२९-३१॥
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् । अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥५-१२९-३२॥
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः । अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥५-१२९-३३॥
ततो रथेन शुभ्रेण महता किङ्किणीकिना । कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् ॥५-१२९-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.