05.142
वैशम्पायन उवाच॥
असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते । अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ॥५-१४२-१॥
जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे । क्रोशतो न च गृह्णीते वचनं मे सुयोधनः ॥५-१४२-२॥
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः । भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ॥५-१४२-३॥
उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः । काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा ॥५-१४२-४॥
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति । मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ॥५-१४२-५॥
जयद्रथस्य कर्णस्य तथा दुःशासनस्य च । सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते ॥५-१४२-६॥
अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् । येषां तेषामयं धर्मः सानुबन्धो भविष्यति ॥५-१४२-७॥
ह्रियमाणे बलाद्धर्मे कुरुभिः को न सञ्ज्वरेत् । असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ॥५-१४२-८॥
ततः कुरूणामनयो भविता वीरनाशनः । चिन्तयन्न लभे निद्रामहःसु च निशासु च ॥५-१४२-९॥
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् । अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह ॥५-१४२-१०॥
धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः । वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः ॥५-१४२-११॥
पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः । भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् ॥५-१४२-१२॥
पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् । अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः ॥५-१४२-१३॥
पितामहः शान्तनव आचार्यश्च युधां पतिः । कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ॥५-१४२-१४॥
नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् । पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ॥५-१४२-१५॥
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः । मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ॥५-१४२-१६॥
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः । कर्णः सदा पाण्डवानां तन्मे दहति साम्प्रतम् ॥५-१४२-१७॥
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति । प्रसादयितुमासाद्य दर्शयन्ती यथातथम् ॥५-१४२-१८॥
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ । आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि ॥५-१४२-१९॥
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता । चिन्तयन्ती बहुविधं हृदयेन विदूयता ॥५-१४२-२०॥
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् । स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ॥५-१४२-२१॥
धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा । दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी ॥५-१४२-२२॥
कथं नु सुकृतं मे स्यान्नापराधवती कथम् । भवेयमिति सञ्चिन्त्य ब्राह्मणं तं नमस्य च ॥५-१४२-२३॥
कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा । कन्या सती देवमर्कमासादयमहं ततः ॥५-१४२-२४॥
योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः । कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ॥५-१४२-२५॥
इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् । कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति ॥५-१४२-२६॥
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः । गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् ॥५-१४२-२७॥
प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः । जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ॥५-१४२-२८॥
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि । कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती ॥५-१४२-२९॥
आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः । दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ॥ यथान्यायं महातेजा मानी धर्मभृतां वरः ॥५-१४२-३०॥