Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.141
सञ्जय उवाच॥
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् । अब्रवीदभिसम्पूज्य कृष्णं मधुनिषूदनम् ॥ जानन्मां किं महाबाहो संमोहयितुमिच्छसि ॥५-१४१-१॥
योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः । निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ॥ दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥५-१४१-२॥
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् । पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥५-१४१-३॥
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥५-१४१-४॥
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन । निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥५-१४१-५॥
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे । शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः ॥५-१४१-६॥
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः । शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥५-१४१-७॥
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन । अनुराधां प्रार्थयते मैत्रं संशमयन्निव ॥५-१४१-८॥
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् । विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥५-१४१-९॥
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति । दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥५-१४१-१०॥
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः । पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥५-१४१-११॥
प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् । निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥५-१४१-१२॥
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते । वाजिनां वारणानां च मनुष्याणां च केशव ॥५-१४१-१३॥
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन । पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥५-१४१-१४॥
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते । प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥५-१४१-१५॥
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव । वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ॥५-१४१-१६॥
मयूराः पुष्पशकुना हंसाः सारसचातकाः । जीवं जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ॥५-१४१-१७॥
गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः । मक्षिकाणां च सङ्घाता अनुगच्छन्ति कौरवान् ॥५-१४१-१८॥
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः । अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥५-१४१-१९॥
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा । धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥५-१४१-२०॥
मांसशोणितवर्षं च वृष्टं देवेन माधव । तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् ॥ सप्राकारं सपरिखं सवप्रं चारुतोरणम् ॥५-१४१-२१॥
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति । उदयास्तमये सन्ध्ये वेदयानो महद्भयम् ॥ एका सृग्वाशते घोरं तत्पराभवलक्षणम् ॥५-१४१-२२॥
कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः । सन्ध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ॥५-१४१-२३॥
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन । भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥५-१४१-२४॥
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा । आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ॥५-१४१-२५॥
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव । महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे ॥५-१४१-२६॥
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः । अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥५-१४१-२७॥
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः । आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥५-१४१-२८॥
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला । आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥५-१४१-२९॥
अस्थिसञ्चयमारूढश्चामितौजा युधिष्ठिरः । सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥५-१४१-३०॥
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम् । त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुन्धराम् ॥५-१४१-३१॥
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः । गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ॥५-१४१-३२॥
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे । विदितं मे हृषीकेश यतो धर्मस्ततो जयः ॥५-१४१-३३॥
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः । त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥५-१४१-३४॥
यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः । पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥५-१४१-३५॥
नकुलः सहदेवश्च सात्यकिश्च महारथः । शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥५-१४१-३६॥
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् । त्रय एते महामात्राः पाण्डुरच्छत्रवाससः ॥५-१४१-३७॥
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन । धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ॥५-१४१-३८॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥५-१४१-३९॥
उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन । मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो ॥५-१४१-४०॥
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन । अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥५-१४१-४१॥
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् । गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥५-१४१-४२॥
कृष्ण उवाच॥
उपस्थितविनाशेयं नूनमद्य वसुन्धरा । तथा हि मे वचः कर्ण नोपैति हृदयं तव ॥५-१४१-४३॥
सर्वेषां तात भूतानां विनाशे समुपस्थिते । अनयो नयसङ्काशो हृदयान्नापसर्पति ॥५-१४१-४४॥
कर्ण उवाच॥
अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् । समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् ॥५-१४१-४५॥
अथ वा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् । तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥५-१४१-४६॥
सञ्जय उवाच॥
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् । विसर्जितः केशवेन रथोपस्थादवातरत् ॥५-१४१-४७॥
ततः स्वरथमास्थाय जाम्बूनदविभूषितम् । सहास्माभिर्निववृते राधेयो दीनमानसः ॥५-१४१-४८॥
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः । पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥५-१४१-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.