Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.151
Pancharatra-core: Keshava urges Yudhisthira to fight the war against evil Duryodhana.
वैशम्पायन उवाच॥
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः। पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् ॥५-१५१-१॥
अस्मिन्नभ्यागते काले किं च नः क्षममच्युत। कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ॥५-१५१-२॥
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च। वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ॥५-१५१-३॥
विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः। कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥५-१५१-४॥
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः। यन्नः क्षमं महाबाहो तद्ब्रवीह्यविचारयन् ॥५-१५१-५॥
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः। मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत् ॥५-१५१-६॥
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम्। न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥५-१५१-७॥
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा। मम वा भाषितं किञ्चित्सर्वमेवातिवर्तते ॥५-१५१-८॥
न स कामयते धर्मं न स कामयते यशः। जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥५-१५१-९॥
बन्धमाज्ञापयामास मम चापि सुयोधनः। न च तं लब्धवान्कामं दुरात्मा शासनातिगः ॥५-१५१-१०॥
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः। सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत ॥५-१५१-११॥
शकुनिः सौबलश्चैव कर्णदुःशासनावपि। त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥५-१५१-१२॥
किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः। सङ्क्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ॥५-१५१-१३॥
न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः। यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् ॥५-१५१-१४॥
न चापि वयमत्यर्थं परित्यागेन कर्हिचित्। कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ॥५-१५१-१५॥
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्। अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥५-१५१-१६॥
युधिष्ठिरस्त्वभिप्रायमुपलभ्य महीक्षिताम्। योगमाज्ञापयामास भीमार्जुनयमैः सह ॥५-१५१-१७॥
ततः किलकिलाभूतमनीकं पाण्डवस्य ह। आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥५-१५१-१८॥
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः। निष्टनन्भीमसेनं च विजयं चेदमब्रवीत् ॥५-१५१-१९॥
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया। सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥५-१५१-२०॥
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः। अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ॥५-१५१-२१॥
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति। कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति ॥५-१५१-२२॥
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः। यदुक्तं वासुदेवेन श्रावयामास तद्वचः ॥५-१५१-२३॥
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च। वचनं तत्त्वया राजन्निखिलेनावधारितम् ॥५-१५१-२४॥
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः। न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः ॥५-१५१-२५॥
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा। स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन् ॥५-१५१-२६॥
ततस्ते धृतसङ्कल्पा युद्धाय सहसैनिकाः। पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥५-१५१-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.