Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.150
Pancharatra-core: After the departure of Keshava, Duryodhana ordered his army to prepare and camp at Kurukshetra.
जनमेजय उवाच॥
युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया। संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥५-१५०-१॥
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम्। केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥५-१५०-२॥
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः। श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥५-१५०-३॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। सम्भ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥५-१५०-४॥
व्यथयेयुर्हि देवानां सेनामपि समागमे। पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥५-१५०-५॥
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः। युयुधानश्च विक्रान्तो देवैरपि दुरासदः ॥५-१५०-६॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥५-१५०-७॥
वैशम्पायन उवाच॥
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा। कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥५-१५०-८॥
अकृतेनैव कार्येण गतः पार्थानधोक्षजः। स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् ॥५-१५०-९॥
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः। भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥५-१५०-१०॥
अजातशत्रुरप्यद्य भीमार्जुनवशानुगः। निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥५-१५०-११॥
विराटद्रुपदौ चैव कृतवैरौ मया सह। तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥५-१५०-१२॥
भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः। तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥५-१५०-१३॥
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः। सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥५-१५०-१४॥
आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः। अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च ॥ विविधायुधपूर्णानि पताकाध्वजवन्ति च ॥५-१५०-१५॥
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः। प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ॥५-१५०-१६॥
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा। हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् ॥५-१५०-१७॥
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम्। आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ॥५-१५०-१८॥
बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः। काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ॥५-१५०-१९॥
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः। अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥५-१५०-२०॥
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः। सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ॥५-१५०-२१॥
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च। विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ॥५-१५०-२२॥
पदातयश्च पुरुषाः शस्त्राणि विविधानि च। उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥५-१५०-२३॥
तदुत्सव इवोदग्रं सम्प्रहृष्टनरावृतम्। नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥५-१५०-२४॥
जनौघसलिलावर्तो रथनागाश्वमीनवान्। शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ॥५-१५०-२५॥
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान्। प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥५-१५०-२६॥
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः। अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः ॥५-१५०-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.