Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.160
Pancharatra-core: Pandavas’s response and the final preparations, night before the war.
सञ्जय उवाच॥
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः। नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ॥५-१६०-१॥
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः। अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥५-१६०-२॥
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान्। अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते ॥५-१६०-३॥
परवीर्यं समाश्रित्य यः समाह्वयते परान्। क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ॥५-१६०-४॥
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः। स्वयं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि ॥५-१६०-५॥
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम्। मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे ॥५-१६०-६॥
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन। न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च ॥५-१६०-७॥
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे। हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ॥५-१६०-८॥
कैतव्य गत्वा भरतान्समेत्य; सुयोधनं धार्तराष्ट्रं ब्रवीहि। तथेत्याह अर्जुनः सव्यसाची; निशाव्यपाये भविता विमर्दः ॥५-१६०-९॥
यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो; मध्ये कुरूणां हर्षयन्सत्यसन्धः। अहं हन्ता पाण्डवानामनीकं; शाल्वेयकांश्चेति ममैष भारः ॥५-१६०-१०॥
हन्यामहं द्रोणमृते हि लोकं; न ते भयं विद्यते पाण्डवेभ्यः। ततो हि ते लब्धतमं च राज्यं; क्षयं गताः पाण्डवाश्चेति भावः ॥५-१६०-११॥
स दर्पपूर्णो न समीक्षसे त्व; मनर्थमात्मन्यपि वर्तमानम्। तस्मादहं ते प्रथमं समूहे; हन्ता समक्षं कुरुवृद्धमेव ॥५-१६०-१२॥
सूर्योदये युक्तसेनः प्रतीक्ष्य; ध्वजी रथी रक्ष च सत्यसन्धम्। अहं हि वः पश्यतां द्वीपमेनं; रथाद्भीष्मं पातयितास्मि बाणैः ॥५-१६०-१३॥
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः। अर्दितं शरजालेन मया दृष्ट्वा पितामहम् ॥५-१६०-१४॥
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः। क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ॥५-१६०-१५॥
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत्। सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन ॥५-१६०-१६॥
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा। नैष्ठुर्यस्यावलेपस्य आत्मसम्भावनस्य च ॥५-१६०-१७॥
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च। अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥५-१६०-१८॥
दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च। द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ॥५-१६०-१९॥
वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप। आशा ते जीविते मूढ राज्ये वा केन हेतुना ॥५-१६०-२०॥
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते। निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ॥५-१६०-२१॥
भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन। भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ॥५-१६०-२२॥
न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः। सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ॥५-१६०-२३॥
इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च। अनुज्ञातो निववृते पुनरेव यथागतम् ॥५-१६०-२४॥
उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम्। गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि ॥५-१६०-२५॥
केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः। दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत ॥५-१६०-२६॥
आज्ञापयत राज्ञश्च बलं मित्रबलं तथा। यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी ॥५-१६०-२७॥
ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः। उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ॥५-१६०-२८॥
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात्। आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति ॥५-१६०-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.