05.159
Pancharatra-core: Krishna responds saying they are going to just ignore these words and answer with action in the war.
सञ्जय उवाच॥
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत्। आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ॥५-१५९-१॥
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम्। प्रागेव भृशसङ्क्रुद्धाः कैतव्येन प्रधर्षिताः ॥५-१५९-२॥
नासनेष्ववतिष्ठन्त बाहूंश्चैव विचिक्षिपुः। आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् ॥५-१५९-३॥
अवाक्षिरा भीमसेनः समुदैक्षत केशवम्। नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ॥५-१५९-४॥
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम्। उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ॥५-१५९-५॥
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम्। श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् ॥५-१५९-६॥
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः। श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते ॥५-१५९-७॥
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः। सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ॥५-१५९-८॥
जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान्। निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ॥५-१५९-९॥
युधिष्ठिरनियोगात्तु फल्गुनस्य महात्मनः। करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः ॥५-१५९-१०॥
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम्। तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः ॥५-१५९-११॥
यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम्। दुःशासनस्य रुधिरं पीतमित्यवधार्यताम् ॥५-१५९-१२॥
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः। न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ॥५-१५९-१३॥