Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.167
Pancharatra-core: Bhishma describes five sons of Pandavas, Drupada, Virata and other warriors on the Pandava side.
भीष्म उवाच॥
द्रौपदेया महाराज सर्वे पञ्च महारथाः । वैराटिरुत्तरश्चैव रथो मम महान्मतः ॥५-१६७-१॥
अभिमन्युर्महाराज रथयूथपयूथपः। समः पार्थेन समरे वासुदेवेन वा भवेत् ॥५-१६७-२॥
लघ्वस्त्रश्चित्रयोधी च मनस्वी दृढविक्रमः। संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति ॥५-१६७-३॥
सात्यकिर्माधवः शूरो रथयूथपयूथपः। एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः ॥५-१६७-४॥
उत्तमौजास्तथा राजन्रथो मम महान्मतः। युधामन्युश्च विक्रान्तो रथोदारो नरर्षभः ॥५-१६७-५॥
एतेषां बहुसाहस्रा रथा नागा हयास्तथा। योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया ॥५-१६७-६॥
पाण्डवैः सह राजेन्द्र तव सेनासु भारत। अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् ॥५-१६७-७॥
अजेयौ समरे वृद्धौ विराटद्रुपदावुभौ। महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ ॥५-१६७-८॥
वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौ। यतिष्येते परं शक्त्या स्थितौ वीरगते पथि ॥५-१६७-९॥
सम्बन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात्। आर्यवृत्तौ महेष्वासौ स्नेहपाशसितावुभौ ॥५-१६७-१०॥
कारणं प्राप्य तु नराः सर्व एव महाभुजाः। शूरा वा कातरा वापि भवन्ति नरपुङ्गव ॥५-१६७-११॥
एकायनगतावेतौ पार्थेन दृढभक्तिकौ। त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप ॥५-१६७-१२॥
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ। सम्बन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः ॥५-१६७-१३॥
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत। प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः ॥५-१६७-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.