Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.170
दुर्योधन उवाच॥
किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम्। उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ॥५-१७०-१॥
पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैः। वधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ॥५-१७०-२॥
भीष्म उवाच॥
शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः। यदर्थं युधि सम्प्रेक्ष्य नाहं हन्यां शिखण्डिनम् ॥५-१७०-३॥
महाराजो मम पिता शन्तनुर्भरतर्षभः। दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ ॥५-१७०-४॥
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्। चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् ॥५-१७०-५॥
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः। विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ॥५-१७०-६॥
मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः। विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ॥५-१७०-७॥
तस्य दारक्रियां तात चिकीर्षुरहमप्युत। अनुरूपादिव कुलादिति चिन्त्य मनो दधे ॥५-१७०-८॥
तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे। रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा ॥ अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा ॥५-१७०-९॥
राजानश्च समाहूताः पृथिव्यां भरतर्षभ। अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा ॥ अम्बालिका च राजेन्द्र राजकन्या यवीयसी ॥५-१७०-१०॥
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम्। अपश्यं ता महाबाहो तिस्रः कन्याः स्वलङ्कृताः ॥ राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते ॥५-१७०-११॥
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान्। रथमारोपयां चक्रे कन्यास्ता भरतर्षभ ॥५-१७०-१२॥
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा। अवोचं पार्थिवान्सर्वानहं तत्र समागतान् ॥ भीष्मः शान्तनवः कन्या हरतीति पुनः पुनः ॥५-१७०-१३॥
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः। प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः ॥५-१७०-१४॥
ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः। योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन् ॥५-१७०-१५॥
ते रथैर्मेघसङ्काशैर्गजैश्च गजयोधिनः। पृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ॥५-१७०-१६॥
ततस्ते मां महीपालाः सर्व एव विशां पते। रथव्रातेन महता सर्वतः पर्यवारयन् ॥५-१७०-१७॥
तानहं शरवर्षेण महता प्रत्यवारयम्। सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ॥५-१७०-१८॥
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान्। एकैकेन हि बाणेन भूमौ पातितवानहम् ॥५-१७०-१९॥
हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे। अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ ॥५-१७०-२०॥
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम। अथाहं हास्तिनपुरमायां जित्वा महीक्षितः ॥५-१७०-२१॥
अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत। तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ॥५-१७०-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.