Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.171
भीष्म उवाच॥
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् । अभिगम्योपसङ्गृह्य दाशेयीमिदमब्रुवम् ॥५-१७१-१॥
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान्। विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः ॥५-१७१-२॥
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप। आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया ॥५-१७१-३॥
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते। उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता ॥५-१७१-४॥
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः। श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुमिहार्हसि ॥५-१७१-५॥
मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः। तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः ॥५-१७१-६॥
कथं मामन्यकामां त्वं राजञ्शास्त्रमधीत्य वै। वासयेथा गृहे भीष्म कौरवः सन्विशेषतः ॥५-१७१-७॥
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ। यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि ॥५-१७१-८॥
स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते। कृपां कुरु महाबाहो मयि धर्मभृतां वर ॥ त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम् ॥५-१७१-९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.