05.172
भीष्म उवाच॥
ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा। मन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान् ॥ समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप ॥५-१७२-१॥
अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम्। वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा ॥ अतीत्य च तमध्वानमाससाद नराधिपम् ॥५-१७२-२॥
सा तमासाद्य राजानं शाल्वं वचनमब्रवीत्। आगताहं महाबाहो त्वामुद्दिश्य महाद्युते ॥५-१७२-३॥
तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पते। त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ॥५-१७२-४॥
गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वै। नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ॥५-१७२-५॥
त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा। परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ॥ नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि ॥५-१७२-६॥
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत्। नारीं विदितविज्ञानः परेषां धर्ममादिशन् ॥ यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम् ॥५-१७२-७॥
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता। मैवं वद महीपाल नैतदेवं कथञ्चन ॥५-१७२-८॥
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन। बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् ॥५-१७२-९॥
भजस्व मां शाल्वपते भक्तां बालामनागसम्। भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ॥५-१७२-१०॥
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम्। अनुज्ञाता च तेनैव तवैव गृहमागता ॥५-१७२-११॥
न स भीष्मो महाबाहुर्मामिच्छति विशां पते। भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ॥५-१७२-१२॥
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप। प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ॥५-१७२-१३॥
यथा शाल्वपते नान्यं नरं ध्यामि कथञ्चन। त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ॥५-१७२-१४॥
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता। सत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे ॥५-१७२-१५॥
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्। अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ॥५-१७२-१६॥
तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम्। अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः ॥५-१७२-१७॥
एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघ। नाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ ॥५-१७२-१८॥
ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता। अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा ॥५-१७२-१९॥
त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते। तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम् ॥५-१७२-२०॥
एवं सम्भाषमाणां तु नृशंसः शाल्वराट्तदा। पर्यत्यजत कौरव्य करुणं परिदेवतीम् ॥५-१७२-२१॥
गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत। बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ॥५-१७२-२२॥
एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना। निश्चक्राम पुराद्दीना रुदती कुररी यथा ॥५-१७२-२३॥