05.173
भीष्म उवाच॥
सा निष्क्रमन्ती नगराच्चिन्तयामास भारत। पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ॥ बान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता ॥५-१७३-१॥
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्। अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम् ॥५-१७३-२॥
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम्। आहो स्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् ॥५-१७३-३॥
ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा। प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा ॥ तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत् ॥५-१७३-४॥
धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम्। येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता ॥५-१७३-५॥
धिङ्मां धिक्षाल्वराजानं धिग्धातारमथापि च। येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ॥५-१७३-६॥
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः। अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम ॥५-१७३-७॥
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि साम्प्रतम्। तपसा वा युधा वापि दुःखहेतुः स मे मतः ॥ को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः ॥५-१७३-८॥
एवं सा परिनिश्चित्य जगाम नगराद्बहिः। आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ॥ ततस्तामवसद्रात्रिं तापसैः परिवारिता ॥५-१७३-९॥
आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत। विस्तरेण महाबाहो निखिलेन शुचिस्मिता ॥ हरणं च विसर्गं च शाल्वेन च विसर्जनम् ॥५-१७३-१०॥
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः। शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः ॥५-१७३-११॥
आर्तां तामाह स मुनिः शैखावत्यो महातपाः। निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ॥५-१७३-१२॥
एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः। आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः ॥५-१७३-१३॥
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः। प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम् ॥५-१७३-१४॥
मयैवैतानि कर्माणि पूर्वदेहेषु मूढया। कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् ॥५-१७३-१५॥
नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः। प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता ॥५-१७३-१६॥
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः। युष्माभिर्देवसङ्काशाः कृपा भवतु वो मयि ॥५-१७३-१७॥
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः। सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ॥५-१७३-१८॥