Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.174
भीष्म उवाच॥
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा। तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः ॥५-१७४-१॥
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः। केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः ॥५-१७४-२॥
केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे। नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥५-१७४-३॥
एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः। पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः ॥५-१७४-४॥
अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः। इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥५-१७४-५॥
प्रतिपत्स्यति राजा स पिता ते यदनन्तरम्। तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ॥ न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता ॥५-१७४-६॥
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि। गतिः पतिः समस्थाया विषमे तु पिता गतिः ॥५-१७४-७॥
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः। राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि ॥५-१७४-८॥
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि। आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ॥५-१७४-९॥
ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम्। त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने ॥ प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः ॥५-१७४-१०॥
अम्बोवाच॥
न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान्। अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥५-१७४-११॥
उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः। नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम ॥ तपस्तप्तुमभीप्सामि तापसैः परिपालिता ॥५-१७४-१२॥
यथा परेऽपि मे लोके न स्यादेवं महात्ययः। दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥५-१७४-१३॥
भीष्म उवाच॥
इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा। राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ॥५-१७४-१४॥
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम्। पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥५-१७४-१५॥
तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः। पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥५-१७४-१६॥
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत। स वेपमान उत्थाय मातुरस्याः पिता तदा ॥ तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो ॥५-१७४-१७॥
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः। सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥५-१७४-१८॥
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः। कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ॥५-१७४-१९॥
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः। मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् ॥५-१७४-२०॥
दुःखं छेत्स्यामि तेऽहं वै मयि वर्तस्व पुत्रिके। पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि ॥५-१७४-२१॥
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम्। रामस्तव महद्दुःखं शोकं चापनयिष्यति ॥ हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः ॥५-१७४-२२॥
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम्। प्रतिष्ठापयिता स त्वां समे पथि महातपाः ॥५-१७४-२३॥
ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः। अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम् ॥५-१७४-२४॥
अभिवादयित्वा शिरसा गमिष्ये तव शासनात्। अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् ॥५-१७४-२५॥
कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः। एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै ॥५-१७४-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.