Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.175
होत्रवाहन उवाच॥
रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने। उग्रे तपसि वर्तन्तं सत्यसन्धं महाबलम् ॥५-१७५-१॥
महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यमुपासते। ऋषयो वेदविदुषो गन्धर्वाप्सरसस्तथा ॥५-१७५-२॥
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम। अभिवाद्य पूर्वं शिरसा तपोवृद्धं दृढव्रतम् ॥५-१७५-३॥
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम्। मयि सङ्कीर्तिते रामः सर्वं तत्ते करिष्यति ॥५-१७५-४॥
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे। जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥५-१७५-५॥
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने। अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः ॥५-१७५-६॥
ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः। स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः ॥५-१७५-७॥
ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः। सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥५-१७५-८॥
ततस्ते कथयामासुः कथास्तास्ता मनोरमाः। कान्ता दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ॥५-१७५-९॥
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः। रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ॥५-१७५-१०॥
क्व सम्प्रति महाबाहो जामदग्न्यः प्रतापवान्। अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः ॥५-१७५-११॥
अकृतव्रण उवाच॥
भवन्तमेव सततं रामः कीर्तयति प्रभो। सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ॥५-१७५-१२॥
इह रामः प्रभाते श्वो भवितेति मतिर्मम। द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्क्षया ॥५-१७५-१३॥
इयं च कन्या राजर्षे किमर्थं वनमागता। कस्य चेयं तव च का भवतीच्छामि वेदितुम् ॥५-१७५-१४॥
होत्रवाहन उवाच॥
दौहित्रीयं मम विभो काशिराजसुता शुभा। ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ ॥५-१७५-१५॥
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता। अम्बिकाम्बालिके त्वन्ये यवीयस्यौ तपोधन ॥५-१७५-१६॥
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत्। कन्यानिमित्तं ब्रह्मर्षे तत्रासीदुत्सवो महान् ॥५-१७५-१७॥
ततः किल महावीर्यो भीष्मः शान्तनवो नृपान्। अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः ॥५-१७५-१८॥
निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम्। आजगाम विशुद्धात्मा कन्याभिः सह भारत ॥५-१७५-१९॥
सत्यवत्यै निवेद्याथ विवाहार्थमनन्तरम्। भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ॥५-१७५-२०॥
ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्। अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ॥५-१७५-२१॥
मया शाल्वपतिर्वीर मनसाभिवृतः पतिः। न मामर्हसि धर्मज्ञ परचित्तां प्रदापितुम् ॥५-१७५-२२॥
तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः। निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ॥५-१७५-२३॥
अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः। कन्येयं मुदिता विप्र काले वचनमब्रवीत् ॥५-१७५-२४॥
विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय। मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ ॥५-१७५-२५॥
प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः। सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥५-१७५-२६॥
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्। अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते ॥५-१७५-२७॥
अम्बोवाच॥
भगवन्नेवमेवैतद्यथाह पृथिवीपतिः। शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥५-१७५-२८॥
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन। अवमानभयाच्चैव व्रीडया च महामुने ॥५-१७५-२९॥
यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम। तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः ॥५-१७५-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.