Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.180
Pancharatra-Ext: Bhargava refuses to listen to Goddess Ganga, and in the battle that follows, day one comes to an end.
भीष्म उवाच॥
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्। भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ॥५-१८०-१॥
आरोह स्यन्दनं वीर कवचं च महाभुज। बधान समरे राम यदि योद्धुं मयेच्छसि ॥५-१८०-२॥
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे। रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ॥५-१८०-३॥
सूतो मे मातरिश्वा वै कवचं वेदमातरः। सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ॥५-१८०-४॥
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः। शरव्रातेन महता सर्वतः पर्यवारयत् ॥५-१८०-५॥
ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम्। सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने ॥५-१८०-६॥
मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे। दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते ॥५-१८०-७॥
ध्वजेन च महाबाहो सोमालङ्कृतलक्ष्मणा। धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ॥५-१८०-८॥
सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः। सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ॥५-१८०-९॥
आह्वयानः स मां युद्धे मनो हर्षयतीव मे। पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ॥५-१८०-१०॥
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम्। क्षत्रियान्तकरं राममेकमेकः समासदम् ॥५-१८०-११॥
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै। अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम् ॥५-१८०-१२॥
अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम्। अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ॥५-१८०-१३॥
योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च। गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो ॥५-१८०-१४॥
राम उवाच॥
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता। धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ॥५-१८०-१५॥
शपेयं त्वां न चेदेवमागच्छेथा विशां पते। युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ॥५-१८०-१६॥
न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः। गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ॥५-१८०-१७॥
भीष्म उवाच॥
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः। प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम् ॥५-१८०-१८॥
ततो युद्धं समभवन्मम तस्य च भारत। दिवसान्सुबहून्राजन्परस्परजिगीषया ॥५-१८०-१९॥
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः। षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम् ॥५-१८०-२०॥
चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते। प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ॥५-१८०-२१॥
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत। तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ॥५-१८०-२२॥
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि। भूयस्तु शृणु मे ब्रह्मन्सम्पदं धर्मसङ्ग्रहे ॥५-१८०-२३॥
ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत्। तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् ॥५-१८०-२४॥
प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः। ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ॥५-१८०-२५॥
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे। एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम् ॥५-१८०-२६॥
तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ। तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत् ॥५-१८०-२७॥
नव चापि पृषत्कानां शतानि नतपर्वणाम्। प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति ॥५-१८०-२८॥
काये विषक्तास्तु तदा वायुनाभिसमीरिताः। चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ॥५-१८०-२९॥
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः। बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन् ॥५-१८०-३०॥
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः। बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः ॥५-१८०-३१॥
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः। हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ॥५-१८०-३२॥
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः। अकम्पयन्महावेगाः सर्पानलविषोपमाः ॥५-१८०-३३॥
ततोऽहं समवष्टभ्य पुनरात्मानमाहवे। शतसङ्ख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ॥५-१८०-३४॥
स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः। शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ॥५-१८०-३५॥
ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना। धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ ॥५-१८०-३६॥
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः। अहो बत कृतं पापं मयेदं क्षत्रकर्मणा ॥५-१८०-३७॥
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः। ततो न प्राहरं भूयो जामदग्न्याय भारत ॥५-१८०-३८॥
अथावताप्य पृथिवीं पूषा दिवससङ्क्षये। जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ॥५-१८०-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.