Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.181
Pancharatra-Ext: Battle continues for a second day, with no winners.
भीष्म उवाच॥
आत्मनस्तु ततः सूतो हयानां च विशां पते। मम चापनयामास शल्यान्कुशलसंमतः ॥५-१८१-१॥
स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः। प्रभात उदिते सूर्ये ततो युद्धमवर्तत ॥५-१८१-२॥
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्। अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥५-१८१-३॥
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम्। धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् ॥५-१८१-४॥
अभिवाद्य तथैवाहं रथमारुह्य भारत। युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥५-१८१-५॥
ततो मां शरवर्षेण महता समवाकिरत्। अहं च शरवर्षेण वर्षन्तं समवाकिरम् ॥५-१८१-६॥
सङ्क्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः। प्रेषयामास मे राजन्दीप्तास्यानुरगानिव ॥५-१८१-७॥
तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः। अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥५-१८१-८॥
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्। मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् ॥५-१८१-९॥
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्। ततो दिवि महान्नादः प्रादुरासीत्समन्ततः ॥५-१८१-१०॥
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्। प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥५-१८१-११॥
ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान्। वारुणेनैव रामस्तद्वारयामास मे विभुः ॥५-१८१-१२॥
एवमस्त्राणि दिव्यानि रामस्याहमवारयम्। रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः ॥५-१८१-१३॥
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः। उरस्यविध्यत्सङ्क्रुद्धो जामदग्न्यो महाबलः ॥५-१८१-१४॥
ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे। अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत् ॥ गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम् ॥५-१८१-१५॥
ततो मामपयातं वै भृशं विद्धमचेतसम्। रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः ॥ अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥५-१८१-१६॥
ततस्तु लब्धसञ्ज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम्। याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥५-१८१-१७॥
ततो मामवहत्सूतो हयैः परमशोभितैः। नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥५-१८१-१८॥
ततोऽहं राममासाद्य बाणजालेन कौरव। अवाकिरं सुसंरब्धः संरब्धं विजिगीषया ॥५-१८१-१९॥
तानापतत एवासौ रामो बाणानजिह्मगान्। बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥५-१८१-२०॥
ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः। रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे ॥५-१८१-२१॥
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम्। असृजं जामदग्न्याय रामायाहं जिघांसया ॥५-१८१-२२॥
तेन त्वभिहतो गाढं बाणच्छेदवशं गतः। मुमोह सहसा रामो भूमौ च निपपात ह ॥५-१८१-२३॥
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते। जगद्भारत संविग्नं यथार्कपतनेऽभवत् ॥५-१८१-२४॥
तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः। तपोधनास्ते सहसा काश्या च भृगुनन्दनम् ॥५-१८१-२५॥
त एनं सम्परिष्वज्य शनैराश्वासयंस्तदा। पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥५-१८१-२६॥
ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत्। तिष्ठ भीष्म हतोऽसीति बाणं सन्धाय कार्मुके ॥५-१८१-२७॥
स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे। येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः ॥५-१८१-२८॥
हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे। अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः ॥५-१८१-२९॥
ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम्। अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः ॥ रामस्य मम चैवाशु व्योमावृत्य समन्ततः ॥५-१८१-३०॥
न स्म सूर्यः प्रतपति शरजालसमावृतः। मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् ॥५-१८१-३१॥
ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः। अभितापात्स्वभावाच्च पावकः समजायत ॥५-१८१-३२॥
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना। भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ॥५-१८१-३३॥
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च। अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ॥ रामः शराणां सङ्क्रुद्धो मयि तूर्णमपातयत् ॥५-१८१-३४॥
ततोऽहं तानपि रणे शरैराशीविषोपमैः। सञ्छिद्य भूमौ नृपतेऽपातयं पन्नगानिव ॥५-१८१-३५॥
एवं तदभवद्युद्धं तदा भरतसत्तम। सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥५-१८१-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.