Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.185
Pancharatra-Ext: Next day, both sage Bhargava and Bhishma end up releasing Brahmastra bring the Universe to the brink of destruction.
भीष्म उवाच॥
ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत। तं च सञ्चिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् ॥५-१८५-१॥
ततः समभवद्युद्धं मम तस्य च भारत। तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम् ॥५-१८५-२॥
ततो बाणमयं वर्षं ववर्ष मयि भार्गवः। न्यवारयमहं तं च शरजालेन भारत ॥५-१८५-३॥
ततः परमसङ्क्रुद्धः पुनरेव महातपाः। ह्यस्तनेनैव कोपेन शक्तिं वै प्राहिणोन्मयि ॥५-१८५-४॥
इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम्। ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः ॥५-१८५-५॥
ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा। सा मामभ्यहनत्तूर्णमंसदेशे च भारत ॥५-१८५-६॥
अथासृङ्मेऽस्रवद्घोरं गिरेर्गैरिकधातुवत्। रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण ॥५-१८५-७॥
ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः। प्रेषयं मृत्युसङ्काशं बाणं सर्पविषोपमम् ॥५-१८५-८॥
स तेनाभिहतो वीरो ललाटे द्विजसत्तमः। अशोभत महाराज सशृङ्ग इव पर्वतः ॥५-१८५-९॥
स संरब्धः समावृत्य बाणं कालान्तकोपमम्। संदधे बलवत्कृष्य घोरं शत्रुनिबर्हणम् ॥५-१८५-१०॥
स वक्षसि पपातोग्रः शरो व्याल इव श्वसन्। महीं राजंस्ततश्चाहमगच्छं रुधिराविलः ॥५-१८५-११॥
अवाप्य तु पुनः सञ्ज्ञां जामदग्न्याय धीमते। प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव ॥५-१८५-१२॥
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे। विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् ॥५-१८५-१३॥
तत एनं परिष्वज्य सखा विप्रो महातपाः। अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा ॥५-१८५-१४॥
समाश्वस्तस्तदा रामः क्रोधामर्षसमन्वितः। प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः ॥५-१८५-१५॥
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम्। मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् ॥५-१८५-१६॥
तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः। असम्प्राप्यैव रामं च मां च भारतसत्तम ॥५-१८५-१७॥
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम्। भूतानि चैव सर्वाणि जग्मुरार्तिं विशां पते ॥५-१८५-१८॥
ऋषयश्च सगन्धर्वा देवताश्चैव भारत। सन्तापं परमं जग्मुरस्त्रतेजोभिपीडिताः ॥५-१८५-१९॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमा। सन्तप्तानि च भूतानि विषादं जग्मुरुत्तमम् ॥५-१८५-२०॥
प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश। न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा ॥५-१८५-२१॥
ततो हाहाकृते लोके सदेवासुरराक्षसे। इदमन्तरमित्येव योक्तुकामोऽस्मि भारत ॥५-१८५-२२॥
प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम्। चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा ॥५-१८५-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.