05.191
भीष्म उवाच॥
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप। चोरस्येव गृहीतस्य न प्रावर्तत भारती ॥५-१९१-१॥
स यत्नमकरोत्तीव्रं सम्बन्धैरनुसान्त्वनैः। दूतैर्मधुरसम्भाषैर्नैतदस्तीति संदिशन् ॥५-१९१-२॥
स राजा भूय एवाथ कृत्वा तत्त्वत आगमम्। कन्येति पाञ्चालसुतां त्वरमाणोऽभिनिर्ययौ ॥५-१९१-३॥
ततः सम्प्रेषयामास मित्राणाममितौजसाम्। दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ॥५-१९१-४॥
ततः समुदयं कृत्वा बलानां राजसत्तमः। अभियाने मतिं चक्रे द्रुपदं प्रति भारत ॥५-१९१-५॥
ततः संमन्त्रयामास मित्रैः सह महीपतिः। हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति ॥५-१९१-६॥
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम्। तथ्यं चेद्भवति ह्येतत्कन्या राजञ्शिखण्डिनी ॥ बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहान् ॥५-१९१-७॥
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम्। घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम् ॥५-१९१-८॥
स तदा दूतमाज्ञाय पुनः क्षत्तारमीश्वरः। प्रास्थापयत्पार्षताय हन्मीति त्वां स्थिरो भव ॥५-१९१-९॥
स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः। भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ॥५-१९१-१०॥
विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः। समेत्य भार्यां रहिते वाक्यमाह नराधिपः ॥५-१९१-११॥
भयेन महताविष्टो हृदि शोकेन चाहतः। पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ॥५-१९१-१२॥
अभियास्यति मां कोपात्सम्बन्धी सुमहाबलः। हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् ॥५-१९१-१३॥
किमिदानीं करिष्यामि मूढः कन्यामिमां प्रति। शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ॥५-१९१-१४॥
इति निश्चित्य तत्त्वेन समित्रः सबलानुगः। वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति ॥५-१९१-१५॥
किमत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने। श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा ॥५-१९१-१६॥
अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी। त्वं च राज्ञि महत्कृच्छ्रं सम्प्राप्ता वरवर्णिनि ॥५-१९१-१७॥
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः। तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते ॥ शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः ॥५-१९१-१८॥
क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः। मया दाशार्णको राजा वञ्चितश्च महीपतिः ॥ तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ॥५-१९१-१९॥
जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै। प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ॥५-१९१-२०॥