Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.190
Pancharatra-Ext: Shikandin was married to a princess, and she comes to know that actually Shikandin is a female and complains to Drupada.
भीष्म उवाच॥
चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत्। ततो लेख्यादिषु तथा शिल्पेषु च परं गता ॥ इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह ॥५-१९०-१॥
तस्य माता महाराज राजानं वरवर्णिनी। चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा ॥५-१९०-२॥
ततस्तां पार्षतो दृष्ट्वा कन्यां सम्प्राप्तयौवनाम्। स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया ॥५-१९०-३॥
द्रुपद उवाच॥
कन्या ममेयं सम्प्राप्ता यौवनं शोकवर्धिनी। मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ॥५-१९०-४॥
न तन्मिथ्या महाराज्ञि भविष्यति कथञ्चन। त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति ॥५-१९०-५॥
भार्योवाच॥
यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः। श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज ॥५-१९०-६॥
क्रियतामस्य नृपते विधिवद्दारसङ्ग्रहः। सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः ॥५-१९०-७॥
भीष्म उवाच॥
ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती। वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ॥५-१९०-८॥
ततो राजा द्रुपदो राजसिंहः; सर्वान्राज्ञः कुलतः संनिशाम्य। दाशार्णकस्य नृपतेस्तनूजां; शिखण्डिने वरयामास दारान् ॥५-१९०-९॥
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः। स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ॥५-१९०-१०॥
स च राजा दशार्णेषु महानासीन्महीपतिः। हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ॥५-१९०-११॥
कृते विवाहे तु तदा सा कन्या राजसत्तम। यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥५-१९०-१२॥
कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत्। न च सा वेद तां कन्यां कञ्चित्कालं स्त्रियं किल ॥५-१९०-१३॥
हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम्। धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत् ॥ कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ॥५-१९०-१४॥
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा। जग्मुरार्तिं परां दुःखात्प्रेषयामासुरेव च ॥५-१९०-१५॥
ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन्। विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ॥५-१९०-१६॥
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा। विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ॥५-१९०-१७॥
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ। हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह ॥५-१९०-१८॥
ततो दाशार्णको राजा तीव्रकोपसमन्वितः। दूतं प्रस्थापयामास द्रुपदस्य निवेशने ॥५-१९०-१९॥
ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः। एक एकान्तमुत्सार्य रहो वचनमब्रवीत् ॥५-१९०-२०॥
दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत्। अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ ॥५-१९०-२१॥
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव। यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ॥५-१९०-२२॥
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते। एष त्वां सजनामात्यमुद्धरामि स्थिरो भव ॥५-१९०-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.