05.193
Pancharatra and Ext: Sthuna, the Yaksha exchanges his manliness with Shikandin. Later, Kubera's curse ensures it stays this way till the end. Bhishma concludes his narration of Shikandin story, giving justification as to why he will not kill Shikandin.
भीष्म उवाच॥
शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ। प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ॥ भवितव्यं तथा तद्धि मम दुःखाय कौरव ॥५-१९३-१॥
भद्रे कामं करिष्यामि समयं तु निबोध मे। किञ्चित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव ॥ आगन्तव्यं त्वया काले सत्यमेतद्ब्रवीमि ते ॥५-१९३-२॥
प्रभुः सङ्कल्पसिद्धोऽस्मि कामरूपी विहङ्गमः। मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान् ॥५-१९३-३॥
स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे। सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव ॥५-१९३-४॥
शिखण्ड्युवाच॥
प्रतिदास्यामि भगवँल्लिङ्गं पुनरिदं तव। किञ्चित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ॥५-१९३-५॥
प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि। कन्यैवाहं भविष्यामि पुरुषस्त्वं भविष्यसि ॥५-१९३-६॥
भीष्म उवाच॥
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप। अन्योन्यस्यानभिद्रोहे तौ सङ्क्रामयतां ततः ॥५-१९३-७॥
स्त्रीलिङ्गं धारयामास स्थूणो यक्षो नराधिप। यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत ॥५-१९३-८॥
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव। विवेश नगरं हृष्टः पितरं च समासदत् ॥ यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च ॥५-१९३-९॥
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम्। सभार्यस्तच्च सस्मार महेश्वरवचस्तदा ॥५-१९३-१०॥
ततः सम्प्रेषयामास दशार्णाधिपतेर्नृप। पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति ॥५-१९३-११॥
अथ दाशार्णको राजा सहसाभ्यागमत्तदा। पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः ॥५-१९३-१२॥
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्तदा। प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम् ॥५-१९३-१३॥
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम्। यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते ॥ फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ॥५-१९३-१४॥
एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम। दूतः प्रयातो नगरं दाशार्णनृपचोदितः ॥५-१९३-१५॥
तत आसादयामास पुरोधा द्रुपदं पुरे। तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ॥ प्रापयामास राजेन्द्र सह तेन शिखण्डिना ॥५-१९३-१६॥
तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह। यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा ॥५-१९३-१७॥
यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वञ्चितः। तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते ॥५-१९३-१८॥
देहि युद्धं नरपते ममाद्य रणमूर्धनि। उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् ॥५-१९३-१९॥
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः। दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा ॥५-१९३-२०॥
अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः। यदाह मां भवान्ब्रह्मन्सम्बन्धिवचनाद्वचः ॥ तस्योत्तरं प्रतिवचो दूत एव वदिष्यति ॥५-१९३-२१॥
ततः सम्प्रेषयामास द्रुपदोऽपि महात्मने। हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् ॥५-१९३-२२॥
समागम्य तु राज्ञा स दशार्णपतिना तदा। तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह ॥५-१९३-२३॥
आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम। मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत ॥५-१९३-२४॥
ततः स राजा द्रुपदस्य श्रुत्वा; विमर्शयुक्तो युवतीर्वरिष्ठाः। सम्प्रेषयामास सुचारुरूपाः; शिखण्डिनं स्त्री पुमान्वेति वेत्तुम् ॥५-१९३-२५॥
ताः प्रेषितास्तत्त्वभावं विदित्वा; प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम्। शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम् ॥५-१९३-२६॥
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ। सम्बन्धिना समागम्य हृष्टो वासमुवास ह ॥५-१९३-२७॥
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः। हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा ॥ पूजितश्च प्रतिययौ निवर्त्य तनयां किल ॥५-१९३-२८॥
विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे। प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी ॥५-१९३-२९॥
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः। लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम् ॥५-१९३-३०॥
स तद्गृहस्योपरि वर्तमान; आलोकयामास धनाधिगोप्ता। स्थूणस्य यक्षस्य निशाम्य वेश्म; स्वलङ्कृतं माल्यगुणैर्विचित्रम् ॥५-१९३-३१॥
लाजैश्च गन्धैश्च तथा वितानै; रभ्यर्चितं धूपनधूपितं च। ध्वजैः पताकाभिरलङ्कृतं च; भक्ष्यान्नपेयामिषदत्तहोमम् ॥५-१९३-३२॥
तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलङ्कृतम्। अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ॥५-१९३-३३॥
स्वलङ्कृतमिदं वेश्म स्थूणस्यामितविक्रमाः। नोपसर्पति मां चापि कस्मादद्य सुमन्दधीः ॥५-१९३-३४॥
यस्माज्जानन्सुमन्दात्मा मामसौ नोपसर्पति। तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ॥५-१९३-३५॥
यक्षा ऊचुः॥
द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी। तस्यै निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् ॥५-१९३-३६॥
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतस्तिष्ठते गृहे। नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान् ॥५-१९३-३७॥
एतस्मात्कारणाद्राजन्स्थूणो न त्वाद्य पश्यति। श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् ॥५-१९३-३८॥
भीष्म उवाच॥
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत्। कर्तास्मि निग्रहं तस्येत्युवाच स पुनः पुनः ॥५-१९३-३९॥
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते। स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः ॥५-१९३-४०॥
तं शशाप सुसङ्क्रुद्धो धनदः कुरुनन्दन। एवमेव भवत्वस्य स्त्रीत्वं पापस्य गुह्यकाः ॥५-१९३-४१॥
ततोऽब्रवीद्यक्षपतिर्महात्मा; यस्माददास्त्ववमन्येह यक्षान्। शिखण्डिने लक्षणं पापबुद्धे; स्त्रीलक्षणं चाग्रहीः पापकर्मन् ॥५-१९३-४२॥
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्कृतं त्वया। तस्मादद्य प्रभृत्येव त्वं स्त्री स पुरुषस्तथा ॥५-१९३-४३॥
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल। स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ॥५-१९३-४४॥
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः। सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया ॥५-१९३-४५॥
हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते। स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः ॥५-१९३-४६॥
इत्युक्त्वा भगवान्देवो यक्षराक्षसपूजितः। प्रययौ सह तैः सर्वैर्निमेषान्तरचारिभिः ॥५-१९३-४७॥
स्थूणस्तु शापं सम्प्राप्य तत्रैव न्यवसत्तदा। समये चागमत्तं वै शिखण्डी स क्षपाचरम् ॥५-१९३-४८॥
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति। तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ॥५-१९३-४९॥
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम्। सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ॥५-१९३-५०॥
यक्ष उवाच॥
शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज। गच्छेदानीं यथाकामं चर लोकान्यथासुखम् ॥५-१९३-५१॥
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम्। गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् ॥५-१९३-५२॥
भीष्म उवाच॥
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत। प्रत्याजगाम नगरं हर्षेण महतान्वितः ॥५-१९३-५३॥
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः। द्विजातीन्देवताश्चापि चैत्यानथ चतुष्पथान् ॥५-१९३-५४॥
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना। मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ॥५-१९३-५५॥
शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुङ्गव। शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ॥५-१९३-५६॥
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः। शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ॥५-१९३-५७॥
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन्। जडान्धबधिराकारा ये युक्ता द्रुपदे मया ॥५-१९३-५८॥
एवमेष महाराज स्त्रीपुमान्द्रुपदात्मजः। सम्भूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः ॥५-१९३-५९॥
ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता। द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ ॥५-१९३-६०॥
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम्। मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ॥५-१९३-६१॥
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम्। स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि ॥५-१९३-६२॥
न मुञ्चेयमहं बाणानिति कौरवनन्दन। न हन्यामहमेतेन कारणेन शिखण्डिनम् ॥५-१९३-६३॥
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः। ततो नैनं हनिष्यामि समरेष्वाततायिनम् ॥५-१९३-६४॥
यदि भीष्मः स्त्रियं हन्याद्धन्यादात्मानमप्युत। नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् ॥५-१९३-६५॥
सञ्जय उवाच॥
एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा। मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत ॥५-१९३-६६॥