05.194
सञ्जय उवाच॥
प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव। मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत ॥५-१९४-१॥
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम्। प्रभूतनरनागाश्वं महारथसमाकुलम् ॥५-१९४-२॥
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः। लोकपालोपमैर्गुप्तं धृष्टद्युम्नपुरोगमैः ॥५-१९४-३॥
अप्रधृष्यमनावार्यमुद्वृत्तमिव सागरम्। सेनासागरमक्षोभ्यमपि देवैर्महाहवे ॥५-१९४-४॥
केन कालेन गाङ्गेय क्षपयेथा महाद्युते। आचार्यो वा महेष्वासः कृपो वा सुमहाबलः ॥५-१९४-५॥
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः। दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम ॥५-१९४-६॥
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे। हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम ॥५-१९४-७॥
भीष्म उवाच॥
अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते। बलाबलममित्राणां स्वेषां च यदि पृच्छसि ॥५-१९४-८॥
शृणु राजन्मम रणे या शक्तिः परमा भवेत्। अस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज ॥५-१९४-९॥
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः। मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः ॥५-१९४-१०॥
हन्यामहं महाबाहो पाण्डवानामनीकिनीम्। दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम ॥५-१९४-११॥
योधानां दशसाहस्रं कृत्वा भागं महाद्युते। सहस्रं रथिनामेकमेष भागो मतो मम ॥५-१९४-१२॥
अनेनाहं विधानेन संनद्धः सततोत्थितः। क्षपयेयं महत्सैन्यं कालेनानेन भारत ॥५-१९४-१३॥
यदि त्वस्त्राणि मुञ्चेयं महान्ति समरे स्थितः। शतसाहस्रघातीनि हन्यां मासेन भारत ॥५-१९४-१४॥
सञ्जय उवाच॥
श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा। पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् ॥५-१९४-१५॥
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान्। निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव ॥५-१९४-१६॥
स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः। अस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् ॥५-१९४-१७॥
यथा भीष्मः शान्तनवो मासेनेति मतिर्मम। एषा मे परमा शक्तिरेतन्मे परमं बलम् ॥५-१९४-१८॥
द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत्। द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् ॥ कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् ॥५-१९४-१९॥
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः। जहास सस्वनं हासं वाक्यं चेदमुवाच ह ॥५-१९४-२०॥
न हि तावद्रणे पार्थं बाणखड्गधनुर्धरम्। वासुदेवसमायुक्तं रथेनोद्यन्तमच्युतम् ॥५-१९४-२१॥
समागच्छसि राधेय तेनैवमभिमन्यसे। शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः ॥५-१९४-२२॥