06.005
वैशम्पायन उवाच॥
एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते। धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ॥६-५-१॥
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः। सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ ॥६-५-२॥
सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः। अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि ॥६-५-३॥
पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः। न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम् ॥६-५-४॥
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम्। मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय ॥६-५-५॥
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च। कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ॥६-५-६॥
देशानां च परीमाणं नगराणां च सञ्जय। श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ॥६-५-७॥
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा। प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ॥६-५-८॥
सञ्जय उवाच॥
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान्। शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ॥६-५-९॥
द्विविधानीह भूतानि त्रसानि स्थावराणि च। त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ॥६-५-१०॥
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः। जरायुजानां प्रवरा मानवाः पशवश्च ये ॥६-५-११॥
नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश। अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ॥६-५-१२॥
सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा। ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ॥६-५-१३॥
गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः। एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥६-५-१४॥
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश। वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥६-५-१५॥
ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम्। सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् ॥६-५-१६॥
उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः। वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥६-५-१७॥
एषां विंशतिरेकोना महाभूतेषु पञ्चसु। चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता ॥६-५-१८॥
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम्। तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति ॥६-५-१९॥
भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति। भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् ॥६-५-२०॥
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम्। तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ॥६-५-२१॥