06.012
Library: Mountains, oceans, landscapes, and rivers.
धृतराष्ट्र उवाच॥
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय। विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः ॥६-१२-१॥
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन। शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ॥६-१२-२॥
शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च। ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥६-१२-३॥
सञ्जय उवाच॥
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत्। सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ॥६-१२-४॥
अष्टादश सहस्राणि योजनानां विशां पते। षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥६-१२-५॥
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः। नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥६-१२-६॥
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः। सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः ॥६-१२-७॥
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव। शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥६-१२-८॥
जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप। विष्कम्भेण महाराज सागरोऽपि विभागशः ॥ क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः ॥६-१२-९॥
तत्र पुण्या जनपदा न तत्र म्रियते जनः। कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ॥६-१२-१०॥
शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ। उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ॥६-१२-११॥
धृतराष्ट्र उवाच॥
शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय। उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः ॥६-१२-१२॥
सञ्जय उवाच॥
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः। रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ॥ अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ॥६-१२-१३॥
देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते। प्रागायतो महाराज मलयो नाम पर्वतः ॥ यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ॥६-१२-१४॥
ततः परेण कौरव्य जलधारो महागिरिः। यत्र नित्यमुपादत्ते वासवः परमं जलम् ॥ यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ॥६-१२-१५॥
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः। रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥६-१२-१६॥
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः। यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥६-१२-१७॥
धृतराष्ट्र उवाच॥
सुमहान्संशयो मेऽद्य प्रोक्तं सञ्जय यत्त्वया। प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह ॥६-१२-१८॥
सञ्जय उवाच॥
सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन। गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप ॥६-१२-१९॥
श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत। आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ॥६-१२-२०॥
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः। केसरी केसरयुतो यतो वातः प्रवायति ॥६-१२-२१॥
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः। वर्षाणि तेषु कौरव्य सम्प्रोक्तानि मनीषिभिः ॥६-१२-२२॥
महामेरुर्महाकाशो जलदः कुमुदोत्तरः। जलधारात्परो राजन्सुकुमार इति स्मृतः ॥६-१२-२३॥
रैवतस्य तु कौमारः श्यामस्य तु मणीचकः। केसरस्याथ मोदाकी परेण तु महापुमान् ॥६-१२-२४॥
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च। जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ॥६-१२-२५॥
शाको नाम महाराज तस्य द्वीपस्य मध्यगः। तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः ॥६-१२-२६॥
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च। धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥६-१२-२७॥
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते। दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥६-१२-२८॥
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः। नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः ॥६-१२-२९॥
सुकुमारी कुमारी च सीता कावेरका तथा। महानदी च कौरव्य तथा मणिजला नदी ॥ इक्षुवर्धनिका चैव तथा भरतसत्तम ॥६-१२-३०॥
ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह। सहस्राणां शतान्येव यतो वर्षति वासवः ॥६-१२-३१॥
न तासां नामधेयानि परिमाणं तथैव च। शक्यते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः ॥६-१२-३२॥
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः। मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥६-१२-३३॥
मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप। मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ॥६-१२-३४॥
मानसेषु महाराज वैश्याः कर्मोपजीविनः। सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ॥ शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ॥६-१२-३५॥
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः। स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् ॥६-१२-३६॥
एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम्। एतावदेव श्रोतव्यं शाकद्वीपे महौजसि ॥६-१२-३७॥